ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः


आवर्तः ५०२ – योगशास्त्रप्रयोजनम्, शारीरकोक्त्यविरोधश्च

योगशास्त्रं पादचतुष्टयोपेतम्। तत्कर्ता पतञ्जलिः। स चादिशेषावताररूपः। कस्यचन ऋषेः सन्ध्योपासनसमये तदञ्जलिपुटादुद्भूय भूमौ पतितत्वात् पतञ्जलिरिति नाम्ना प्रसिद्धः।

(१) स च स्थूलशरीरगतरोगरूपमलनिवृत्त्यर्थं चिकित्साग्रन्थमकरोत्।

(२) अशुद्धपदोच्चारणरूपवाङ्मलनिवृत्त्यर्थं पाणिनीयव्याकरणस्य भाष्यं चकार।

(३) विक्षेपरूपान्तःकरणमलापनयाय योगसूत्रं रचयामास। तत्र च –

(३.१) प्रथमपादे चित्तवृत्तिनिरोधरूपः समाधिस्तत्साधनभूता अभ्यासवैराग्यादयश्च निरूपिताः।

(३.२) द्वितीयपादे – विक्षिप्तचित्तस्य समाधिसाधनीभूतानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिनामकान्यष्टाङ्गान्युक्तानि।

(३.३) तृतीपादे – योगविभूतयः कथिताः।

(३.४) चतुर्थपादे – योगफलभूतो मोक्षः कथितः।

इत्थं योगशास्त्रमपि ज्ञानसाधनीभूतनिदिध्यासनसम्पादनद्वारा मोक्षहेतुत्वं प्रतिपद्यते। शारीरकसूत्रेषु यत् साङ्ख्ययोगखण्डनं कृतम्, तत् उपनिषद्विरुद्धार्थप्रतिपादकतद्व्याख्यानखण्डनरूपमेव। न तु मूलसूत्रखण्डनरूपम्। न्यायवैशेषिकसूत्रखण्डनमपि तद्विरुद्धार्थप्रतिपादकव्याख्यानखण्डएवं नार्थमेव।