ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५०३ – पाञ्चरात्रपाशुपतादिप्रवृत्तिप्रयोजनम्

(१) पाञ्चरात्रम् – नारदेन पाञ्चरात्रनामकं तन्त्रमकारि। तत्र वासुदेवेऽन्तःकरणस्य स्थापनं कथितम्। अतस्तस्यापि अन्तःकरणस्थैर्यसम्पादनाज्ज्ञानद्वारा मोक्ष एव फलम्। सर्वेषामपि वैष्णवग्रन्थानां पाञ्चरात्रेऽन्तर्भावः। तच्च पाञ्चरात्रं धर्मशास्त्रेऽन्तर्भवति।

(२) पाशुपतम् – पाशुपततन्त्रे पशुपत्याराधनं कथ्यते। तत्कर्ता पशुपतिः। तस्याप्यन्तःकरणनैश्चल्यसम्पादनद्वारा मोक्षसाधनं ज्ञानमेव फलम्।