आवर्तः ५०४ – शैवादिग्रन्थानां फलम्, वाममार्गश्च
शैवग्रन्थाः सर्वेऽपि पाशुपततन्त्रेऽन्तर्भवन्ति। तथैव गणेशसूर्यदेव्याद्युपासनाबोधकानां ग्रन्थानामपि चित्तनिश्चलतासम्पादनद्वारा ज्ञानमेव फलम्। सर्वेषामप्येषां धर्मशास्त्रेऽन्तर्भावः। तत्र देव्युपासनाबोधकग्रन्थेषु द्वौ संप्रदायौ वर्तेते। एको दक्षिणसंप्रदायः। इतर उत्तरसंप्रदायः। उत्तरसंप्रदायं वाममार्ग इति कथयन्ति। तत्र –
(१) दक्षिणसंप्रदायरीत्या ये ग्रन्था देव्युपासनं बोधयन्ति, ते धर्मशास्त्रेऽन्तर्भवन्ति।
(२) वाममार्गो यस्मिन्ग्रन्थेऽस्ति स ग्रन्थो धर्मशास्त्रविरुद्धत्वादप्रमाणं भवति। वामतन्त्रमपि यद्यपि परमशिवेनाकारि। तथापि सर्ववेदशास्त्रविरुद्धत्वान्न तत्प्रमाणं भवति। यथा विष्णुना बुद्धावतारे कृतो नास्तिकग्रन्थो वेदविरुद्धत्वादप्रमाणं भवति। तथा शिवकृतं वामतन्त्रमपि। तत्र हि मदिरादयोऽनेकेऽत्यन्ताशुद्धाः पदार्था ग्राह्यत्वेन कथिताः। सर्वलोकवञ्चनार्थं मलिनानपि पदार्थान् उत्तमान् कथयति। तद्यथा मदिरा तीर्थम्, मांसं शुद्धम्, मदिरापात्रं पद्मम्, दुर्जनो व्यासः, लशुनः शुकदेवः, ध्वजी मदिराविक्रयी, मदिरोत्पादको दीक्षितः, वेश्यासेवी चर्मकारिण्यादिसेवी चाण्डाल्यादिसेवी च प्रयागसेवी, काशीसेवी, भैरवीचक्रमध्यवर्तिनो चण्डालादयो ब्राह्मणा इत्यादि। अत्यन्तव्यभिचारिणी योगिनीति, स्वैरी योगीति च प्रतिपादयति। एवमादिर्बहुप्रकारो वाममार्गव्यवहारोऽत्यन्तनिषिद्धोऽपि तत्र वर्तते।
किञ्च पूजासमयेऽनेकदोषयुक्तामपि स्त्रियमुत्तमा शक्तिरिति कथयति। जातितश्चण्डालीमत्यन्तव्यभिचारिणीं रजस्वलामपि स्त्रियं देवीबुद्ध्या पूजनीयां कथयति। तस्या उच्छिष्टभूतां मदिरां पेयां प्रतिपादयति। अधिकमदिरापानात् तया वान्तमपि पृथिवीपातमन्तरेणैवातिश्रद्धयाचार्यसहितैरितरैः सावधानमनस्कैः पेयमाचष्टे। वान्तं भैरवीति च कथयति। स्त्रीयोनौ जिह्वां प्रवेश्य कानपि मन्त्रान् जप्यानाह। (१) मदिराम्, (२) मांसम्, (३) मत्स्यम्, (४) मुद्राम्, (५) मन्त्रांश्च भोगार्थं मोक्षार्थं च सेव्यानाह। प्रथमद्वितीयादिमकारा अप्रसिद्धनाम्ना तत्र व्यवहृताः। एवमाद्या वामतन्त्रोक्ताः सर्वेऽपि व्यवहारा ऐहिकामुष्मिकसुकृतात् तत्सेविनं जनं भ्रष्टं कुर्वन्ति।
किञ्च कर्णच्छेदी योगी, अवधूतो गोस्वामी, अनेके सन्यासिनः, ब्राह्मणादयश्च केचत् िवाममार्गमनुतिष्ठन्ति। ते च सर्वमिदं लोकवेदनिन्दितमिति ज्ञात्वैव अतिरहस्यतया गोपायन्तीमं वाममार्गम्। किमत्राधिकं वक्यव्यम्। वाममार्गं शृण्वतो म्लेच्छस्यापि रोमाञ्च जायते। अतिनीचो व्यवहारो लेखना - योग्य इति विशेषतोऽत्र न व्यलेखि। सर्वथापि वामतन्त्रमत्यन्तं त्याज्यमेव।