आवर्तः ५०५ – नास्तिकमतम्
नास्तिकमतमपि परित्याज्यमेव। तत्र (१) माध्यमिकः, (२) योगाचारः, (३) सौत्रान्तिकः, (४) वैभाषिकः, (५) चार्वाकः, (६) दिगम्बर इति षट् वर्तन्ते। नैते वेदं प्रमाणत्वेनाभ्युपगच्छन्ति। तेषां सिद्धान्तोऽपि परस्परं विलक्षण एवास्ते। तत्र –
(१) माध्यमिकः – सर्वशून्यवादी।
(२) योगाचारः – सर्वे पदार्था न विज्ञानस्वरूपाद्भिद्यन्ते। विज्ञानमेवैकं तत्त्वम्। तदपि क्षणिकमेव, इति कथयति।
(३) सौत्रान्तिकः – विज्ञानस्याकारो बाह्यपदार्थात्मकं विषयं विना न जायते। अतो विज्ञानेन बाह्याः पदार्था अनुमीयन्ते। न ते प्रत्यक्षप्रमाणगोचराः। नापि स्थिराः। अपि तु सर्वेऽपि पदार्थाः क्षणिका एवेति ब्रूते।
(४) वैभाषिकः – बाह्याः पदार्थाः क्षणिका अपि प्रत्यक्षप्रमाणविषया इति ब्रवीति।
अयमेव सौत्रान्तिकवैभाषिकमतयोर्भेदः। एतन्मतचतुष्टयमपि सुगतस्यैव।
(५) चार्वाकः – न पदार्थाः क्षणिकाः। देह एव आत्मा इति वदति।
(६) दिगम्बरः – देहो नात्मा। देहविलक्षण एवात्मा। स च यावत्परिमाणो देहः, तावत्परिमाण इति जल्पति।
इत्थं तेषां परस्परं मतिभेदोऽस्ति। इतोऽप्यनेके पक्षभेदाः सन्ति। तेऽपि वेदविरोधिन एवेति नात्र विशेषतो निरूपिताः। नापि खण्डिताः।
इत्थं वाममार्गनास्तिकमार्गग्रन्था यद्यपि संस्कृतवाणीरूपा एव। तथापि ते वेदबाह्या इति न विद्यास्थानेषु परिगण्यन्ते। तस्माद्वेदानुसारीणि विद्याप्रस्थानानि अष्टादशैव।