आवर्तः ५०६ – *१ साहित्यादितात्पर्यनिश्चयपूर्वकः तर्कदृष्टेः सारग्राही निश्चयः
मम्मटभट्टादिकृताः साहित्यग्रन्थाः कामशास्त्रेऽन्तर्भवन्ति। काव्येषु *२ केषाञ्चित् कामशास्त्रेऽन्तर्भावः केषाञ्चित् *३ धर्मशास्त्रे। इत्थमष्टादशापि विद्यास्थानानि ब्रह्मात्मैकत्वज्ञानसम्पादनद्वारा मोक्षहेतुभूतानि। कानिचित् *४ साक्षात् कानिचित्परम्परया। अयमेव सर्वशास्त्राणामभिप्राय इति तर्कदृष्टिर्निश्चिकाय। यद्यप्युत्तरमीमांसां विना सर्वाण्यपि शास्त्राणि मुमुक्षुणा जिज्ञासुना सुतरां परित्यज्यानीति शारीरकमीमांसासूत्रतद्भाष्यकारादिभिः प्रतिपादितम्। तथापि उक्तेन नयेन तान्यपि कथमपि तत्रोपयुज्यन्त इति सूक्ष्मदृष्ट्या तर्कदृष्टिरेवं निश्चिकाय।
*१. साहित्यमलङ्कारग्रन्थः।
*२. नायिकाभेदरसभेदाद्यर्थप्रतिपादकानाम्।
*३. भगवच्चारित्रप्रतिपादकानाम्।
*४. बुभुक्षितस्य क्षुन्निवर्तनद्वारा तृप्त्युत्पादने पक्वान्नं यथा साक्षात्साधनम्। कृषिसस्यादिकं च यथा परम्परासाधनम्, तथाज्ञाननिवृत्तिद्वारात्मानुभवरूपतृप्त्युत्पदाने केचन ग्रन्था ज्ञानोत्पादनद्वारा साक्षात्साधनम्, केचन ग्रन्था निष्कामकर्मप्रतिपादनद्वारा परम्परासाधनम्।