-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
आवर्तः ५०७ – तर्कदृष्टेः केनचिद्विदुषा समागमः
गुरुमुखाच्छ्रुते स्वबुद्ध्या निश्चितेऽप्यर्थे तर्कदृष्टेः पुनः सन्देहो जातः। ‘यो मया निश्चितोऽर्थः स एवायं शास्त्रार्थः, उतान्यः’ इति। तर्कदृष्टेः कनिष्ठाधिकारित्वेन पुनः पुनः कुतर्कवशात्सन्देहो युज्यत एव। तन्निवृत्त्यर्थं विद्वदन्तरनिश्चयेन स्वनिश्चयस्य संवादसम्पादनार्थं च स कदाचित् कञ्चन विद्वांसमुपसङ्गम्य स्वाभिप्रायं तस्मै न्यवेदयत्। स च तर्कदृष्टिवचनं श्रुत्वा भवदुक्तः सर्वोऽपि मुख्यसिद्धान्त एवेति प्रत्यब्रवीत्। ततस्तर्कदृष्टिः सर्वमपि संशयं हित्वा ‘अहं ब्रह्मास्मि’ इति साक्षाद्ब्रह्मापरोक्षतयानुभूय बन्धमोक्षादिकं सर्वं मिथ्यैवेति विजज्ञौ।