आवर्तः ५०८ – ज्ञानिन इच्छादिसंभवेऽपि व्यवहारे औदासीन्यम्
ज्ञानिनोऽपि सकलव्यवहारोऽज्ञवत् प्रारब्धवशाज्जायत इति प्रागभिहितम्। तदनुकूला इच्छापि तस्य संभवेदेव। यद्यप्यन्तःकरणं भूतानां सत्त्वगुणकार्यमित्युक्तम्। तथापि रजस्तमोगुणसहितसत्त्वगुणकार्यमेव तन्न तु केवलसत्त्वगुणकार्यम्। केवलसत्त्वगुणकार्यं चैतत् स्यात् तदा अन्तःकरणस्य चाञ्चल्यस्वभावो न कदापि स्यात्। तथा कामक्रोधाद्या राजस्यो वृत्तयो निद्रालस्यमूढत्वाद्यास्तामस्यो वृत्तयश्च न स्युः। सर्वत्र तासां प्रतिप्राणि जायमानत्वादेव न केवलसत्त्वगुणकार्यमन्तःकरणम्। किन्तु, अप्रधानीभूतरजस्तमोगुणसहितसत्त्वगुणप्रधानपञ्चभूतकार्यमेव। तस्मादन्तःकरणे त्रयोऽपि ते गुणाः सर्वदा वर्तन्त एव। परन्तु न समतया। न्यूनाधिकभावेन तु वर्तन्ते। तस्माद्गुणानां न्यूनाधिकभाववशात् प्रतिप्राणि विलक्षणस्वभावमन्तःकरणम्। तद्यावदन्तःकरणमास्ते, तावद्रजोगुणपरिणामरूपा इच्छापि स्यादेव। यत् क्वचिच्छास्त्रान्तरेषु नैव ज्ञानिन इच्छादिः संभवेदित्युक्तम्। तत्रायमभिप्रायः – ज्ञान्यज्ञानिनोर्द्वयोरपीच्छा स्यादेव। तथापि –
(१) अज्ञ इच्छादीनात्मधर्मत्वेन जानाति। (२) ज्ञानी त्विच्छाद्युत्पत्तिसमयेऽपि नैव तानात्मधर्मत्वेन विजानाति। किन्तु अन्तःकरणपरिणामत्वात्तद्धर्मा एवेति तान् संवेत्ति। इत्थं ज्ञानिनामिच्छादिसंभवेऽपि यतो न ते आत्मधर्मत्वेन ज्ञानिनः प्रतिभान्ति अतो ज्ञानिन इच्छादयो न संभवन्तीति।
तथा मनोवाक्कायकृतं संव्यवहारादिकं सर्वं न ज्ञानिन आत्मधर्मत्वेन प्रतिभाति, किन्तु क्रियासामान्यं मनोवाक्कायाश्रितं तत्रैव वर्तते। आत्मा त्वसङ्ग इत्येव प्रतिभाति। तस्माज्ज्ञानी सर्वव्यवहारेषु कर्ताप्यकर्तेव। “न कर्मणा लिप्यते पापकेन “ (बृ. ४.४.२३) इत्यादिश्रुतेः। ज्ञानोदयादनन्तरं प्रारब्धकृतशुभाशुभकर्मफलरूपसुखदुःखादिना नैव ज्ञानी सम्बच्यते। तदेवं प्रारब्धवशादज्ञवत् ज्ञानिनोऽपि सर्वो व्यवहारस्तदनुकूला इच्छादयश्च संभवेयुरेव।