-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४६४-५३८ शुभसन्ततिराजप्रसङ्गः
- ४६४-५३८ शुभसन्ततिराजप्रसङ्गः
आवर्तः ५०९
शुभसन्ततिनामानं राजानं विहाय त्रयोऽपि तत्पुत्राः प्रोषिता अभवन्। तेषां पुत्राणां चरित्रं कथितम्। अधुना तत्पितुः प्रसङ्गः कथ्यते।
पुत्राणां प्रवासात्परं पितू राज्ञस्तीव्रवैराग्याभावात्तद्विरहप्रयुक्तं दुःखमभूत्। मन्दवैराग्यवशाद्विषयभोगात्सुखमपि नाभूत्। पुत्रप्रवासतस्तितिक्षायां सत्यामपि राज्यं विहाय गन्तुं नाभूद्धैर्यम्। इतश्च तस्य दुःखमेवासीत्। सति हि तीव्रे वैराग्ये स राज्यं त्यक्तुं शक्नुयात्। तादृशवैराग्याभावेन राज्यपरित्यागस्तस्य नाभूत्। भोगासक्तिरपि तथा नाभूत्। तत उभयथापि तस्य दुःखमेवासीत्। परमार्थनिर्वेदाभावान्मन्दवैराग्यफलभूता उपास्यदेवताजिज्ञासैवाभूत्।