-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः
- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः
आवर्तः ५१० – शुभसन्ततेः पण्डितसमाजे “को देवः सदा जागर्ति” इति प्रश्नः
शुभसन्ततेर्मन्दवैराग्योदयोऽपि महाभाग्यवशादेव जातः। तेन च तस्य ‘को देव उपास्यः’ इति जिज्ञासा समजनि। पण्डितवरानानाय्य यथोचितमासनादिषूपवेश्य ‘पुरुषार्थलाभाय सर्वैरपि जनैराराध्योऽनिद्रोऽस्वप्नः सदा भक्तजनपरिपालनव्यग्रश्च को देवः’ इति पप्रच्छ। श्रुत्वैतद्राजवचनं पण्डितवरेषु कश्चित् एवं प्रतिवक्तुमुपचक्रमे।