ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः


आवर्तः ५११ – विष्णूपासकस्योत्तरम्

भो राजन्। सकलवेदान्तशिरोमणिभूतं वासुदेवं शिवो विरिञ्चिश्च नित्यं सेवते। शङ्खचक्रधरः सर्वजनहितकारी पद्मगदाधरः परोपकारी च स वासुदेवः। मङ्गलमूर्तिर्दयानिधिश्च। इत्थंभूतो महाविष्णुर्निजभक्तजनचित्ताभिज्ञः तत्तद्भक्ताभीष्टं क्षेमं प्रयच्छति। शक्तिगणेशसूर्यशिवादयः सर्वेऽपि देवास्तदाज्ञावंशवदा इति भारतपाद्मपुराणादिषु नृसिंहतापिनीरामतापिनीगोपालतापिन्याद्युपनिषत्सु चोच्यन्ते। सर्वं च जगद्विष्णुस्वरूपात्समजनि। सर्वपीडापहर्ता स एव। आराधयन्ति च सर्वेऽप्येनमेव। विधिमवतीर्य देवानां साहाय्यमकरोत्। तस्मात् विष्णुरेव सर्वैरुपास्यः। नान्यदुपास्यं तत्सममस्ति दैवतम्।

विष्णोरन्तरङ्गभक्तोऽपि शिवो नोपास्यं स्वरूपं धत्ते। शववत्सोऽमङ्गलस्वरूपी। ततोऽसावस्माकं न ध्यानार्हः। भस्मडमरुगजचर्मकपालमालाधरोऽयमन्यस्मै कथं क्षेमङ्करः स्यात्। तत्पुत्रो गणेशोऽपि तथैव। गणानामधिपतित्वेन श्रेष्ठो गणपतिरपि नरमृगमिश्रितं रूपं धत्ते। केचन हठाद्देवीध्यानं कुर्वन्ति। ततस्तत्समानरूपतां लभन्ते। स्त्रीस्वरूपं त्वतिनिन्द्यमशुच्यगणितावगुणयुक्तं विचित्रविभवाश्रयं कपटस्वरूपं नित्यपराधीनं च। ईदृशस्वरूपाभिलाषी यो नरः स गर्दभतुल्यस्तां सेवतु। सूर्योऽप्यहर्निशमविश्रममन्तरिक्षेऽलातचक्रवद्वम्भ्रमीति। तदुपासकोऽपि तथैव सदा चञ्चलः स्यात्। तस्मात् समुत्सृज्यान्या देवताः सर्वाः सदा प्रबुद्धो महाविष्णुरेव सदा सर्वैः सेवनीय इति जानीहि।

तत्पूजाध्यानादिविधिप्रकारा नारदपाञ्चरात्रग्रन्थे कथिताः। विष्णूपासनातिरिक्तमुपासनचतुष्टयं यद्यपि लोकप्रसिद्धम्। तथापि तत्रैकैकोपासननिन्दया स्मार्तोपासनमपि निषिद्धं भवति। पञ्चापि देवताः समबुद्ध्या यत्रोपास्यन्ते तत्स्मार्तोपासनमित्युच्यते। पञ्चायतनपूजनमपि शिवादीनां चतुर्णां विष्णुसमताबोधनात्स्मार्तोपासनमेव।