ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः


आवर्तः ५१२ – शिवोपासकस्योत्तरम्

शिवोपासकः कश्चिन्मुनिः पूर्वोक्तं श्रुत्वातीव सङ्क्रुद्धोऽतितरां च रक्तनेत्र एवमाह हे राजन् शृणु मे वचः। शिव एवोपास्यो न विष्णुः। सन्ति च कोटिशोऽत्र प्रमाणानि। भक्ताभीष्टसर्वस्वप्रदोऽन्यस्तत्समः को वास्त लोकत्रयेऽपि। महाविष्णुना याचितः सकलमपि स्वकीयमैश्वर्यं तस्मै दत्त्वा स्वयं *१ भस्मैव धत्ते। अत एव चर्मकरोटिकादिकमपि दधार। न हि तस्यास्ति उत्तमाधमत्वसाध्वसाधुत्वादिभेदविवेचनम्। सर्वं सममेव तस्य। सम एव चासौ सर्वस्य। स्वयं नग्नो भूत्वा ‘वैराग्यान्न न परं सुखस्य जनकं कुत्रापि सत्साधनम्’ इत्युपदिशति। इत्थं महादाता परमशिव एव नरनार्यादीनां काश्यां म्रियमाणानां शीघ्रं *२ स्वसायुज्यमुक्तिं प्रयच्छति। न च ते गर्भवासादिदुःखं पुनः प्राप्नुवन्ति। शिवसमाः सर्वान्दिव्यभोगान् भुञ्जते। तदा चायं परमशिवो लैङ्गं शरीरं विहायाद्वैतब्रह्मात्मप्राप्त्युपायमुपदिशति।

*१. महोक्षः खट्वाङ्गः परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति॥ शि. म. ८॥

*२. शिवसमानैश्वर्यविशिष्टशिवलोकमुक्तिम्।

विष्णुस्वभावस्त्वेवमिति श्रूयते – स हि भक्तमात्रपरिरक्षणपरः। नाभक्तरक्षकः। व्यासश्चावोचत् स्कान्दे पुराणे “हरिः सेवकः सेव्यश्च हरः” इति रामेश्वरे रामचन्द्रेण परमशिवः पूजित इति च। भारतपाद्मपुराणादिषु सर्वदेवेभ्यो हरिः श्रेष्ठ इत्युक्तेर्न स्वार्थे तात्पर्यम्, किन्तु भारततात्पर्यपर्यालोचनायां परमशिवस्यैवेश्वरत्वं प्रतीयते। इत्थमेव *३ चाप्पय्यदीक्षिताख्यविदुषाप्यलेखि सर्वेतिहासपुराणानां तात्पर्यम्।

*३. अयं च दक्षिणदेशे काञ्चीपुरसमीपस्थाडयप्पलग्रामवास्तव्यः। परमशिवोपासकशिखामणिः। सिद्धान्तलेशसङ्ग्रहादिचतुरधिकशतप्रबन्धनिर्माता च।

भारततात्पर्यप्रसङ्गस्त्वयमेव – अश्वत्थाम्ना नारायणाग्नेयाद्यस्त्रप्रयोगे कृतेऽपि बहुसैन्यमरणं विना न कश्चित् पाण्डवेषु ममार। तदा च स रथं विहाय धनुर्वेदमाचार्यं च धिक्कृत्य वनं जगाम। तदा व्यासस्तं दृष्ट्वा इदमाह ‘हे ब्रह्मन्, आचार्यवेदादिनिन्दा न कार्या। एतौ हि कृष्णार्जुनौ नरनारायणात्मकौ। एताभ्यामत्यन्तं पूजितः परमेश्वरस्तद्भक्त्यतिशयवशात्तदायत्तो भूत्वा महादेवः त्रीशूली तद्रथस्य पुरतः स्थित्वा त्वत्प्रयुक्तास्त्रशस्त्रादीनां सामर्थ्यं विनाशयति´ इति। इत्थं महाभारते महादेवकृपयैव नारायणस्वरूपस्यापि श्रीकृष्णस्य विभूत्यतिशयोऽभूदिति सिद्ध्यति। तस्माद्विष्णुचरित्रप्रतिपादको ग्रन्थः सर्वोऽपि शिवस्यैवाधिक्यं प्रतिपादयति। तेषु ग्रन्थेषु विष्णुः सेव्यतयोच्यते। भारतप्रसङ्गबलात्तु स विष्णुः शिवभक्त इति सिद्ध्यति। अतः स एव परमशिवः परमसेव्यो भवति। इत्थमप्पय्यदीक्षितः सकलेषु वैष्णवग्रन्थेषु शिव एव तात्पर्येण प्रतिपाद्यत इति प्रतिपादयामास। हरिस्तु शिवभक्ताग्रगण्यः। महादेवो महेश इति च तस्य शिवस्य नाम। तदितरेषां देवानां देव ईश्वर इत्येव प्रसिद्धिः। शिवशब्दस्य मङ्गलमित्यर्थः। “श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्” इत्यमरः। शिवादन्यदशिवं सर्वम्। सर्वेऽपि देवाः शिवाद्भिन्ना अशिवा एव ( अमङ्गलस्वरूपा एव)। अतो विहायैनान् सर्वानेव देवानमङ्गलस्वरूपान् शिव एवैको ध्येयः सर्वैरपि शिवङ्करः।

अपि च विषं दृष्ट्वा भयमभूत् तदितरेषां सर्वेषां देवानाम्। तद्विषं कण्ठे एव निरुद्ध्य तेषामयं भयमपनुनोद। तत्सुतो गणेशो यद्यपि सकलान्विघ्नान् सद्य एवापहन्ति तथापि कार्यगुणस्य कारणाधीनत्वनियमात् सर्वविघ्नानां मूलतो विनाशकरः शिव एवेति विज्ञेयम्। जननमरणादिदुःखरूपा विघ्नाः सर्वेऽपि शिवध्यानमात्रादेव विनश्यन्तीति विद्यात्। इत्थं सर्वैः सदा सेव्यः सदाशिव एव। पाशुपततन्त्रे शिवपूजाविधयो निरूप्यन्ते। तदुक्तपूजाविधानेन स्तुतिनमस्कारादिना च शिवचरणसाक्षात्कारो जायेत। नारदपाञ्चरात्रमतं सूत्रभाष्याभ्यां व्यखण्डि। तदनुरोधि रामानुजादिनवीनवैष्णवमतमपि *१ कल्पतरुव्याख्यानरूपे परिमले सम्यक् खण्डितम्।

*१. श्रीशङ्करभगवत्पादविरचितब्रह्मसूत्रभाष्यव्याख्यानरूपस्य वाचस्पतिकृतभामतीनिबन्धनस्य कल्पतरुरिति व्याख्या। तस्य च व्याख्यानं परिमलम्। तच्चाप्पय्यदीक्षितरचितमिति दक्षिणदेशे प्रसिद्धिः।