ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः


आवर्तः ५१३ – गणेशपूजकस्योत्तरम्

गणेशः शिवस्य पुत्रः। कारणगुण एव कार्येऽप्यनुवर्तत इत्येतच्छ्रुत्वा कुपितो गणेशपूजकः प्रत्युवाचेदम् – हे राजन् शृणु मे वचः। एतावुभावपि मिथ्याभूतमर्थं सत्यत्वेन साधयतः। यद्गणेशः शिवपुत्रः पराधीनश्चेत्युक्तम्। तदसङ्गतम्। अत्र च व्यासेन भगवता पुराणोक्ता कथा काचित्कथ्यते। त्रिपुरसंहारार्थं हरिहरादयः सर्वेऽपि देवा जग्मुः। गणेशपूजाकरणान्न त्रिपुराः पराजिताः। पश्चाद्भयाकुलितचित्तास्ते सर्वेऽपि गणेशमाराध्य त्रिपुरानजयन्। यस्यैव गणेशस्य पूजया जयोऽभूद्देवानाम् स एव सर्वैः सेव्य इति विज्ञायताम्। यथा पितुर्दशरथस्य मानुषस्य रामभद्रः पुत्रोऽभूदीश्वरोऽपि सन् तथैव परमशिवस्यापि गणेशः पुत्रो भूत्वा विघ्नान्निराचकार। गणेशपुराणमपि श्रीव्यासभगवानेवाकरोत्। तत्र सर्वस्यापि कारणं गणेश एवेति निरूपितम्। तस्य शुण्डादण्डादेव हरिहरविधिरविशक्तिप्रमुखाः सर्वेऽपि देवा अजायन्त। यस्तु विघ्नेशध्यानं क्षणमात्रमपि करोति, तस्य विघ्नाः सर्वेऽपि तत्क्षणादेव विनश्यन्ति। इत्थमहर्निशं भक्तियुक्तैर्विनायको विघ्नराज एव निष्कामतया सेव्यः। इति।