- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः
आवर्तः ५१४ – देवीभक्तस्योत्तरम्
गणेशः सर्वस्यापि कारणमित्येतद्वचः श्रुत्वा भगवतीभक्तः सगर्जनमिदमाह – हे राजन्, शृणु मे सत्यमिदं वचः। त्रिभिरप्येतैरुक्तमप्रमाणमेव। सर्वेऽप्येते देवाः शक्तिविरहिताः शवप्राया इत्येव विद्धि। शक्तिहीनो ह्यसमर्थ इत्युच्यते। कथं नु तस्य कार्यनिर्वाहकत्वम्। ये तावदत्यन्तं शक्तिमुपासते, ते सर्वाधिकारिणो भवन्ति। हरिहरसूर्यगणपतिप्रभृतिष्वपि नानाविधाः शक्तयो दृश्यन्ते। लोके या या शक्तिरित्युच्यते सा सा भगवतीस्वरूपैवेति जानीहि।
भगवत्या रूपद्वयमस्ति – (१) एकं सामान्यम्, (२) अपरं सविशेषम्। (१) सर्वेषु पदार्थेषु तत्तत्कार्यकरणानुकूलसामर्थ्यरूपा या शक्तिः सा भगवत्याः सामान्यं रूपम्। (२) अष्टभुजादियुक्ता या मूर्तिः सा तस्याः सविशेषं रूपम्। सामान्यशक्तेरंशास्तु सङ्ख्यातीता वर्तन्ते। यस्मिञ्छक्त्यंशो न्यूनो वर्तते, सोऽल्पशक्तिमान् असमर्थ इत्युच्यते। यत्र शक्त्यंशोऽधिको वर्तते स समर्थ इत्युच्यते। शिवविष्ण्वादिषु शक्त्यंशाधिक्यात् ते अतिसमर्थाः। इत्थं भगवत्यंशरूपशक्त्यंशाधिक्याद्विष्णुशिवगणेशसूर्यादिषु तेषां महिमा प्रसिद्धः। प्राणविहीनं शरीरं यथामङ्गलं तथा शक्तिविहीनाः सर्वे देवा अपि अमङ्गला एव। तस्माद्यच्छक्त्याधिक्याद्देवानां महिमा स महिमा शक्तेरेव। न तु देवानाम्। शिवविष्ण्वादिभिर्भगवत्याः सामान्यरूपशक्तेर्विशेषत उपासनात् तेषां शक्त्यंशाधिक्यं वर्तते।
भगवत्या निराकाररूपायाः शक्तेर्यथानेकेंऽशा वर्तन्ते। तथा साकाररूपायाः शक्तेरप्यनेकेंऽशा वर्तन्ते। तादृशेषु साकारांशेषु कालीरूपं प्रधानम्। माहेश्वरी, वैष्णवी, सौरी, गाणेशीत्यादयोऽपि प्रधानांशा एव। भगवत्युपासनयैव स्वे स्वे *१ माहेश्वराद्या अंशाः तैः प्राप्ताः। तत्रापि शिवविष्णू भगवत्या मुख्यौ भक्तौ। ध्यातुर्ध्वेयरूपताप्राप्तिरुपासनायाः फलम्। शिवविष्णुभ्यामुपासनाबलाच्येयरूपता लब्धा। अतस्तौ मुख्योपासकौ।
*१. एतच्च देवीभागवते विस्पष्टमुपलभ्यते।
अमृतमथनेनामृतोद्भवसमये सुरासुरविवादं परिहर्तुं प्रवृत्तस्य विष्णोः सामर्थ्यहानिरभूत्। तदा स्वोपास्यदेवतां भगवतीं ध्यात्वा स्वयमेव तत्तादात्म्यमवाप। तद्रूपमाहात्म्यादसुरा अपि विष्णुपक्षपातिनोऽभवन्। तथा शिवोऽपि समाधौ भगवतीध्यानबलात् स्वार्धशरीरेण (अर्धनारीशरीरेण) उपास्योऽभूत्। विक्षेपवशात् समाध्यसम्पूर्त्या तस्य विशिष्टं शरीरमुपास्यं नाभूत्। इत्थमेव सर्वेऽपि देवा भगवत्युपासका एव।
देव्युपासना दक्षिणोत्तरमार्गाभ्यां द्विप्रकारा कथ्यते। तत्र दक्षिणो मार्गः कथितः। उत्तरो मार्ग इतः कथ्यते। भगवतीभक्तेषु हरिहरादिवत् कोऽन्योऽस्ति तदुपासकः। तथापि महामायास्वरूपिणीध्याता तु सकलं पुरुषार्थं शीघ्रमेव लभते। एकत्रैव भोगमोक्षप्राप्त्युपायत्वं नान्यत्रैतस्माद्देवीध्यानादस्ति जगति। भगवतीभक्तः सकलान् भोगान् भुञ्जानोऽपि पुनर्गर्भवासं न भजते। शिवोक्तस्तन्त्रक्रम इह कथितः। भगवतीभक्तिरत्यन्तसुखप्रदा। निखिलैरपि प्राचीनैरनुष्ठिता। पञ्च मकाराः कदापि त्यक्तुं न शक्यन्ते। श्रीकृष्णबलरामादयः, सर्वेऽपि देवाः, ज्ञानिनोऽपि प्रथममकारं सदा जलवदेवापिबन्। इतरेऽपि प्राचीना बहवो मकारमेवासेवन्त। मकारसेवनप्रकारः परमशिवेन परोपकाराय कथितः। शिववचनं मनसि कुर्वन्नस्मिन्नेव शरीरे भोगमोक्षादिकमनुभवति। श्रीव्यासभगवानेवैतद्भागवतमपि चकार। उपपुराणे हि कालीमवर्णयत्। भगवत्या भक्तिरेव श्रेष्ठत्वेन कथ्यते। सर्वेऽपि पूजाविधयस्तेनैव कथिताः।
हरिहरभानुगणेशादयो भगवतीध्यानेनैव जीवन्ति। मतिमन्तः सर्वेऽपि प्रथममकारपानेन मत्तमानसाः सन्तो भगवतीं पूजयन्ति। जगज्जननी सा देव्येकैव सदा जागर्ति। तत्सेव्येव परमानन्दमनुभवति।