- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः
आवर्तः ५१५ – सूर्यभक्तस्योत्तरम्
भगवतीमाहात्म्यं श्रुत्वा कुपितः सूर्यभक्त इत्थमुवाच – हे राजन् मम सत्यं वचः शृणु। नानृतं भवति मदुक्तम्। शतशः शपामि। मतान्तराणि पापिष्ठानि नीचतमानि च। सर्वलोकनिन्दिता गुणाः सर्वेऽपि देवीमार्गे उत्तमत्वेन कथ्यन्ते। अत्यन्तमलिनं मद्यं महापातककारणमपि तीर्थमित्युच्यते मांसं च शुद्धमिति। विपरीतार्थावबोधकं *१ शम्भुतन्त्रम् अननुष्ठेयमेव बौद्धागमवत्। सर्वानुष्ठानयोग्यत्वेन दक्षिणसंप्रदायस्य श्रेष्ठत्वेऽपि यस्मिन् सर्वमनोबन्धो भवति तादृशसूर्याभावे सर्वोऽप्यन्ध एव स्यात्। सर्वावभासकः सूर्य एव। तदभावे सर्वत्र सर्वमन्धकारो व्याप्नुयात्। पदार्थावभासकतेजोऽन्तराण्यपि सूर्यस्यांशभूतान्येव। भानुसमानः को वास्ति लोकस्य हितकारी। परहितार्थमेवासावन्तरिक्षेऽविश्रमं परिभ्रमति। सर्वं हि कार्यं कालाधीनमेव। स एवैकोऽपि भूतभव्यभविष्यद्रूपेण त्रिधोच्यते। सूर्यगत्यैव सूत्रात्मतया सर्वाः क्रियाः क्रियन्ते। अनेन विधिना सर्वं भानोरुदजायत। तत्कोपात्सर्वं भस्मीभवेत्। तस्य साकारनिराकारभेदेन रूपद्वयं भवति। तत्र निराकारः प्रकाशः सकलनामरूपे व्याप्य वर्तते। यदेव च *२ वेदान्तिभिः भातीति शब्देन व्यवह्रियते, तदेव निराकारप्रकाशात्मकमादित्यगतं निराकारस्वरूपम्। तदेव च सर्वजगदधिष्ठानम्। तदज्ञानवशादेव जगद्रूपो विवर्तो जायते। तादृशो निराकारः प्रकाश एवान्तःकरणवृत्तिस्थप्रतिबिम्बविशिष्टश्चेत् ज्ञानमित्युच्यते। ‘अहं भानुः’ इत्यन्तःकरणवृत्तिः प्रकाशप्रतिबिम्बेन सहैव यदोदेति, तदाज्ञाननिवृत्त्या जगदपि निवर्तते।
*१. शम्भुतन्त्रं नाम – पामराणां देहाभिमाननिवृत्तिद्वारा तदतिरिक्तात्मास्तित्वबोधनार्थं वेदानधिकारिणां क्वचिद्रुच्युत्पादनाभिप्रायेण शिवकृतं तन्त्रं शिवतन्त्रम् (वामतन्त्रम्) इत्यप्युच्यते।
*२. वेदस्यान्तः समाप्तिः = चरमभागः = सिद्धान्तः = वेदान्तः। उपनिषत्।
सूर्यस्य साकारं स्वरूपं निरूप्यते – प्रातःकाले यत्तत्तेजः प्रकाशते, तदेव साकारं स्वरूपम्। चन्द्रतारादीपादयोऽपि तदंशभूता एव। निराकारसाकारभेदवशात् सूर्यस्य यद्विरूपत्वं वर्तते तत्र निराकारं रूपमेव ज्ञेयम् साकारं तु रूपं ध्येयम्। एतदेव रूपद्वयं वेदान्तेषु ‘निर्गुणसगुणभेदेन द्विरूपं ब्रह्म’ इत्युच्यते। यत्र हि कालत्रयेऽपि अन्धकारलेशोऽपि न संभवति, तद्दर्शनमात्रादेव सर्वेऽपि स्वस्वकर्माण्यारभन्ते। स एव विनिद्रः सदा जागर्ति देवः। तद्ध्यानादन्धकारो विनश्यति। इतरे देवा जाग्रतीत्येतन्मिथ्येति विद्धीति।