- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः
आवर्तः ५१६ – पूर्वोक्तमतानुवादः स्मार्तमतं च
उक्तानामुपासकानां यथा परस्परविरुद्धाभिधायकत्वम्, एवमेव *१ अन्येषाम् अपि बहूनां पण्डितानां स्वस्वबुद्ध्यनुसारतो विरुद्धाभिधायित्वमेव। यद्यपि स्मार्ताः पण्डिताः पूर्वोक्तासु पञ्चस्वपि देवतासु भेदबुद्धिं न कुर्वन्ति। तथापि तन्मतमपि एतन्मतविरोध्येव। वैष्णवस्य त्विदं मतम् ‘नह विष्णुतुल्यमस्ति देवतान्तरम्। इतरे सर्वेऽपि देवा विष्णुभक्ता एव। विष्णोः श्रीरामकृष्णनारायणादीनि नामानि यस्त्वितरदेवतानामभिः समतया जानाति, स *२ नामापराधी स्यात्। रामकृष्णादिनामोच्चारणफलं च नाप्नोति’ इति। एवं शिवमतेऽपि ‘नैवास्ति शिवतुल्यं देवतान्तरम्। शिवनोच्चारणफलं विष्ण्वादिनामोच्चारणेन नैव लभ्यते इति। इत्थं सर्वमतेष्वपि स्वस्वोपास्यदेवतातुल्यं नास्ति देवतान्तरम्। स्मार्ते तु मते सर्वेऽपि देवाः समाः। तस्मात् स्मार्तमपि मतं पूर्वोक्तपञ्चमतविरुद्धमेव।
*१. योगिनैयायिक हिरण्यगर्भीयविराडुपासकप्रजाकामादिमताभिमानिनाम्।
*२. सन्निन्दासति नामवैभवकथा श्रीशेशयोर्भेदधीः
अश्रद्धा श्रुतिशास्त्रदेशिकगिरां नाम्न्यर्थवादभ्रमः।
नामास्तीति निषिद्धवृत्तिविहितत्यागौ च धर्मान्तरैः
साम्यं नामनि शङ्करस्य च हरेर्नामापराधा दश॥
इत्युक्तदशापराधेषु एकोऽपि यः कश्चिदपराधो यस्यास्ति स नामापराधी। एवं दशापराधहीन एकोऽपि दुर्लभः। दशापराधान् विनैव यदि नाम कश्चिन्नामसङ्कीर्तनं कुर्यात् स कोटियज्ञफलं लभेत्।