- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः
आवर्तः ५१७ – षट्च्छास्त्राणां परस्परविरोधः
(१) साङ्ख्य, (२) पातञ्जल, (३) न्याय, (४) वैशेषिक, (५) पूर्वमीमांसा, (६) उत्तरमीमांसारूपाणि षट्च्छास्त्राण्यपि परस्परविरुद्धान्येव। यतः —
(१) *१ साङ्ख्यमते ईश्वरो नाभ्युपगम्यते। समाध्यात्मकयोगापेक्षां विनैव केवलप्रकृतिपुरुषविवेकादेव मोक्षो भवतीत्यभ्युपगम्यते।
(२) पातञ्जले मते ईश्वरोऽभ्युपगम्यते। मोक्षश्च समाधिना। तस्मात् साङ्ख्यपातञ्जलमतयोरन्योन्यं विरोधः।
(३-४) न्यायमते *२ चत्वारि प्रमाणानि। वैशेषिकमते *३ द्वे प्रमाणे। इत्यन्योन्यं विरोधः। एवमन्येऽपि विरोधा वर्तन्ते। जिज्ञासूनामनपेक्षितत्वात् तेऽत्र न लिख्यन्ते।
(५) पूर्वमीमांसकमते ईश्वरः मोक्षरूपं नित्यसुखं च नाभ्युपगम्यते। किन्तु कर्मजन्यं विषयसुखमेव पुरुषार्थ इत्युच्यते।
(६) उत्तरमीमांसायां तु ईश्वरो मोक्षश्चाङ्गीक्रियते। विषयसुखं न पुरुषार्थः। उत्तरमीमांसाभिमतं मतमेवास्मिन्ग्रन्थे स्फुटतरमुक्तम्। एवं सर्वमपि शास्त्रमनेन विरुद्ध्यते। शास्त्रान्तरेषु भेदवादो निरूप्यते। अस्मिंस्तु शास्त्रे भेदखण्डनपूर्वकमभेद एव प्रतिपाद्यते। इत्थं सकलमपि शास्त्रं परस्परविरुद्धमेव।
*१. निरीश्वरसाङ्ख्यमते। तट्टीका (३५५) आवर्ते।
*२. प्रत्यक्षम्, अनुमानम्, शब्दः, उपमानम्। तद्विवरणम् (२०४-२०७) आवर्ते।
*३. प्रत्यक्षम् अनुमानम्। (२०४- २०५) आवर्ते।