ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ५०९-५१८ शुभसन्ततिराजप्रसङ्गः


आवर्तः ५१८ – तर्कदृष्टेः पितृदर्शनम्

ईदृशविरुद्धवादश्रवणेन राज्ञ इतोऽपि *४ अपूर्वः संशयः समजनि। सर्वेऽपि हि युक्तिप्रमाणोपेतमेव कथयन्तीति। एवं वदतां कस्य मतं प्रामाणिकं यथार्थभूतं चेति। एतादृशसंशयशोकदुःखाद्याविष्टस्य राज्ञो मनस्युपास्यदैवमिदमेवेति निश्चयो नाभूत्। एतत्संशयनिवर्तकः को वास्तीति चिन्ताकुलो जातः। अस्मिन्नवसरे तर्कदृष्टिर्यदृच्छया पितृदर्शनाय तदन्तिकमाजगाम। तावुभावपि परस्परमालिलिङ्गतुः। तर्कदृष्टिः पुत्रः पितरं यथाविधि प्रणाम। पितापि पुत्रायाशिषः कृत्वासनमदात्।

*४. कस्याश्चिद्वृद्धस्त्रियो गृहद्वारि कश्चन मार्जारो मृतोऽभूत्। सा तं ग्रामाद्बहिर्निःसार्य यावत्प्रत्यागता तावत्प्राग्द्वारि रुग्णः कश्चिदुष्टो मृतोऽभूत्। यथास्याश्चिन्तायाश्चिन्ताअन्तरं महदुदभूत् तथा शुभसन्ततेरप्युपास्यदेवताविषयकाज्ञाननिवृत्तये पण्डितान्पृष्टवतः संशयान्तरमेव नवमभूत्। तन्निवृत्त्यर्थं तस्य महती चिन्ताप्यभवत्।