-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
आवर्तः ५१९ – तर्कदृष्टिकृतः पित्रुपदेशः। कारणस्वरूपमुपास्यम्, न कार्यस्वरूपम्
पितुश्चिन्ताक्रान्ततां दृष्ट्वा, ‘तात, भवच्चित्तस्य कुतो व्याकुलता´ इति तर्कदृष्टिः पितरं पप्रच्छ।
शुभसन्ततिः स्वपुत्रोक्तं श्रुत्वा स्वचिन्ताकारणीभूतं विशिष्टं वृत्तान्तमकथयत्। किमेकमुपास्यं दैवतमिति पप्रच्छ च।
तर्कदृष्टिः पितृवचनं श्रुत्वा तस्य शुभोदयार्थमाह। कारणस्वरूपमेवोपास्यं न कार्यस्वरूपम्। कारणस्वरूपस्य नामान्यनन्तानि। अयमेव च वेदस्य मुख्यः सिद्धान्तः। इतिहासपुराणादिष्वप्ययमेव सिद्धान्तो भगवता वेदव्यासेन निरूपितो नान्यः। पण्डितास्त्विममभिप्रायमजानन्तः परस्परं मतान्तरं खण्डयन्ति। श्रीनीलकण्ठपण्डितेनापि भारतव्याख्यानारम्भे प्रसङ्गादयमर्थो निरूपितः। तत्रैवोत्तमः श्रुतिसिद्धान्तोऽपि यथावन्निरूपितः।