आवर्तः ५२० – पुराणेषु श्रूयमाणयोः स्तुतिनिन्दयोर्व्यासाभिप्रायः
ननु सर्वपुराणकर्ता श्रीवेदव्यास एक एव। स हि स्कन्दपुराणे शिवस्य स्वातन्त्र्यादीश्वरधर्माः सन्तीति प्रतिपादयामास। देवतान्तराणां च शिवकृपयैव सर्वविभूत्यतिशयो जायत इति च। तथा तेनैव विष्णुपुराणे पाद्मपुराणादौ च विष्णोरीश्वरत्वमुक्तम्। इत्थमेव पुराणेषु उपपुराणेषु च शिवविष्णुभिन्नगणेशादिदेवानामपीश्वरत्वं प्रतिपाद्यते। तदेवं व्यासवचसां परस्परविरोध उपलभ्यते। इति।
अत्राभिधीयते – *१ सर्वे अपीश्वरा एव। यत्र यस्य देवस्योपास्यत्वप्रतिपादनतात्पर्येण तदितरदेवतानिन्दा श्रूयते तत्र तन्निन्दायाः तदुपासनपरित्यागे न तात्पर्यम्। किन्तु प्रकरणिस्तुत्या तदुपासनायामेव। यथा विष्णुपुराणेषु शिवादिदेवतानिन्दा विष्णुस्तुतिद्वारा तदुपासनाप्रवृत्तावेव हेतुः। एवं शिवपुराणादिषु कृता विष्ण्वादिनिन्दापि शिवस्तुतिद्वारा तदुपासनाप्रवृत्तावेव हेतुः। नेतरोपासनापरित्यागे। एकत्र कृता देवतान्तरनिन्दा तद्देवतान्तरोपसानापरित्यागार्था यदि स्यात् तदा सर्वदेवतोपासनापरित्यागप्रसङ्ग एव स्यात्। तस्मादन्यदेवतानिन्दान्यस्य कस्यचिदुपास्यस्य स्तुतये। न तु तदुपासनापरित्यागाय।
*१. सर्वशब्देन विष्णुशिवगणेशदेवीसूर्यादयो गृह्यन्ते।
अत्र दृष्टान्तः – वेदेऽग्निहोत्रस्य द्वौ कालावुक्तौ। एकः सूर्योदयात्प्राक्। द्वितीय उदयादनन्तरः। ‘उदिते जुहोत्यनुदिते जुहोति’ इति।
तत्रानुदितहोमप्रसङ्गे उदितहोमो निन्द्यते। उदितहोमप्रसङ्गे चानुदितहोमः। तत्र यदि निन्दाया अग्निहोत्रान्तरपरित्यागे तात्पर्यं स्यात्, तर्हि कालद्वयेऽप्यग्निहोत्रपरित्यागप्रसङ्ग एव। न हि नित्यस्य कर्मणः परित्यागः तस्मादुतिहोमस्तुतयेऽनुदितहोमनिन्दा। अनुदितहोमस्तुतये चोदितहोमनिन्दा क्रियते। एवमेवैकदेवतोपासनाप्रसङ्गे देवतान्तरनिन्दायास्तात्पर्यं प्रकतोपास्यदेवतास्तुतावेव। न देवतान्तरनिन्दायाम्। संभवति।