आवर्तः ५२१ – पञ्चदेवतोपासनायाः फलमेकमेव (ब्रह्मलोकः)
शुक्लकृष्णयजुःशाखाभेदेन केचनानुदितहोमं कुर्वन्ति। केचनोदितहोमं च। उभयेषां च फलं समानमेव। तथा इच्छाभेदवशात् पञ्चस्वपि देवतासु यस्याः कस्याश्चिदुपासनायां क्रियमाणायां पञ्चभिरप्युपसानाभिर्ब्रह्मलोक एव प्राप्यते। तत्रत्यभोगानुभवानन्तरं विदेहमोक्षः सिद्ध्यति। यद्यपि विष्ण्वादिदेवतोपासनया वैकुण्ठादिलोक एव प्राप्यत इति पुराणेषूच्यते, न तु ब्रह्मलोकः। तथापि विदेहमुक्त्यधिकारित्वादुत्तमोपासका देवयानमार्गेण ब्रह्मलोकमेव गच्छन्ति। एक एव ब्रह्मलोको विष्णूपासकस्य वैकुण्ठरूपेण भाति। तत्रत्याः सर्वेऽपि चतुर्भुजा एव लक्ष्यन्ते। स्वयमपि चतुर्भुजो भवति। शिवोपासकस्य शिवलोकत्वेन भाति। तत्रत्याः सर्वे त्रिनेत्रधारिणः प्रतीयन्ते। स्वयमुपासकोऽपि तथैव भवति। एवमेव सर्वेषामपि तत्तदुपासकानामेक एव ब्रह्मलोकस्तत्तदुपास्यलोकात्मना प्रतीयते।
अत्रायं नियमः – देवयानमार्गं विना मार्गान्तरेण गन्ता पुनः पुनः संसारमेव गच्छति। ब्रह्मलोकगमनमार्गस्तु देवयानाख्य एक एव। तस्माद्विदेहमुक्तियोग्या उपासकाः सर्वेऽपि ब्रह्मलोकं गच्छन्ति। तादृशे ब्रह्मलोके उपासकेच्छानुसारेण सकलसामग्रीविशिष्टतत्तल्लोकात्मना प्रतीयमानत्वरूपोऽद्भुतो महिमा वर्तते। एवं पञ्चदेवतोपासनायाः फलमेकमेव।
*१. देवयानपितृयाणजायस्वम्रियस्वेति त्रिविधाः संसारमार्गाः।
(१) सूर्यमण्डलं भित्त्वा ब्रह्मलोकगमनमार्गो देवयानः पन्थाः, अर्चिरादिमार्ग इति चोच्यते।
(२) चन्द्रमण्डलं भित्त्वा इन्द्रलोकगमनमार्गः पितृयाणमार्गः, धूमादिमार्ग इति चोच्यते।
(३) पुनः पुनर्जननमरणादिप्रवाहकारणीभूतो मृत्युलोकगमनमार्गे जायस्वम्रियस्वेति तृतीयो कष्टो मार्गः।
तुरीयो मोक्षमार्गस्तु ब्रह्मज्ञानात्मक एव।