ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५२२ – एकस्मिन्नेव परमात्मनि नानानामरूपप्रतीतिसम्भावना

ननु पञ्चानामपि देवानां नामरूपादयो विभिन्नाः कथ्यन्ते। ईश्वरस्त्वेक एव। कथं न्विदमकेस्यैव नानानामरूपवत्त्वादि संभवेत् इति चेत्। अत्राभिधीयते परमार्थतो न किञ्चिदपि नामरूपादिकं परमात्मनि युज्यते। अथापि मन्दबुद्धीनामुपासनार्थं नामरूपरहिते एव परमात्मनि नामरूपादिकं काल्पनिकमेवोपेयते। तस्मात् एकस्मिन्नेव परमात्मनि मायाकल्पितं नामरूपादिकं नानाविधं संभवत्येव। इत्थं हि सर्वपुराणवाक्यानां विरोधोऽपि निवर्तते।