ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५२३ – सर्वेषामपि पुराणानां कार्यकारणब्रह्मोपासनाबोधनक्रमवशात् येयोपादेयविषयकत्वतात्पर्यनिरूपणम्

पुराणवाक्यानां परस्परविरुद्धाभिधायकत्वशङ्काया मुख्यं समाधानम् – शिवविष्णुगणेशदेवीसूर्यादिकं नाम प्रत्येकं कारणब्रह्मबोधकम्। कार्यब्रह्मणामपि समानमेवैतन्नामजातम्। मायाविशिष्टं चैतन्यं कारणं ब्रह्मेति कथयन्ति। कार्यभूतं हिरण्यगर्भमपि ब्रह्मेति वदन्ति। इत्थं कारणं ब्रह्म, कार्यं ब्रह्म चेत्युभयविधमपि ब्रह्म विष्णुशिवादयः शब्दा बोधयन्ति। तथैवैतेषां पञ्चानामपि देवानां नारायणनीलकण्ठविघ्नेशशक्तिभान्वित्यादीन्यप्यनन्तानि पर्यायपदानि विद्यन्ते। तान्यपि कारणकार्यात्मकमुभयरूपमपि ब्रह्म बोधयन्ति। क्वचित्कारणं ब्रह्म क्वचिच्च कार्यं ब्रह्म प्रसङ्गानुसारेण बोधयन्ति। यथा सैन्धवशब्दोऽश्वलवणोभयबोधकोऽपि, भोजनप्रकरणे लवणम्, गमनप्रकरणेऽश्वं च बोधयत्येवम्।