आवर्तः ५२४
वैष्णवादिग्रन्थस्थविष्ण्वादिस्तुतिशिवादिनिन्दावचनानां व्यासाभिप्रायस्त्वयमेव। कारणं ब्रह्मोपास्यम्। कार्यं तु ब्रह्म नोपास्यमिति।
(१) तत्र वैष्णवेषु पुराणेषु विष्णुनारायणादिशब्दाः कारणं ब्रह्म बोधयन्ति। शिवगणेशशक्तिसूर्यादिशब्दास्तु तत्रत्याः कार्यमेव ब्रह्मापकृष्टम्। एवमन्यत्रापि।
(२) स्कन्दपुराणादिशैवग्रन्थेषु शिवमहेशादिशब्दाः कारणं ब्रह्म बोधयन्ति। विष्णुगणेशदेवीसूर्यादिशब्दास्तु कार्यं ब्रह्म।
(३) गणेशपुराणेऽपि गणेशपदं कारणस्य ब्रह्मणः, विष्णुशिवादिपदानि कार्यस्य ब्रह्मणश्च वाचकानि।
(४) काली (देवी)पुराणे कालीदेव्यादिशब्दाः कारणं ब्रह्म, विष्णुशिवसूर्यादिशब्दाः कार्यं ब्रह्म च बोधयन्ति।
(५) सौरपुराणे च भानुसूर्यादयः शब्दाः कारणस्य ब्रह्मणः शिवादिशब्दाः कार्यस्य ब्रह्मणश्च बोधकाः। तस्मात् सर्वत्र कारणस्तुतिः कार्यनिन्दा चोपपन्नैव।
एवं निखिलेषु पुराणेषु कार्यकारणसंज्ञारूपाणां सङ्केतानामेव भेदः। न तु हेयोपादेयरूपे विवक्षितेऽर्थे। सर्वपुराणेषु कारणब्रह्मोपासना उपादेया। कार्यब्रह्मोपासना च हेया। तस्मात् सर्वपुराणानामप्येकं कारणमेव ब्रह्मोपास्यमित्यत्रैव तात्पर्यम्। न तेषां स्वार्थे विरोधः।