-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
आवर्तः ५२५ – मूर्तिप्रतिपादनाभिप्रायः
यद्यपि चतुर्भुजत्रिनेत्रसतुण्डाष्टभुजादिमूर्तयो मायापरिणामाश्चैतन्यविवर्ताश्चेति कार्यात्मका एव। तासामुपासना च विहिता। तथापि तादृशचतुर्भुजादिमूर्तीनां यत्कारणात्मकं मायाविशिष्टं चैतन्यं तद्विचारे क्रियमाणे न कोऽपि भेदः सिद्ध्यति। तस्मात् तत्तन्मूर्तीनां कार्यात्मकमाकारं बाधित्वा कारणस्वरूपमेवोपास्यमित्यत्रैव सर्वग्रन्थानां तात्पर्यम्। आकारः कार्यत्वात् तुच्छः। कारणं सत्यम्। यस्य तु मन्दा प्रज्ञाकार एव स्थिरा भवति, स शास्त्रोक्ताकारोपासनामेव कुर्यात्। ततः प्रज्ञा निश्चलीभूय कारणब्रह्मोपासनायां स्थिरीभवति।