आवर्तः ५२६ – कारणब्रह्मोपासनाः
कारणब्रह्मोपासनाप्रकारस्त्वयमेव। ब्रह्म जगत्कारणं सत्यकामत्वसत्यसङ्कल्पत्वसर्वज्ञत्वस्वतन्त्रत्वसर्वप्रेरकत्वसर्वान्तर्यामित्वकृपालुत्वेश्वरत्वादिधर्मविशष्टत्वेन ध्यायीत। न हि मूर्तिध्यानेऽस्ति शास्त्रस्य तात्पर्यम्। शास्त्रेष्वनेकमूर्तिप्रतिपादनं च नोपासनार्थमेव। किन्तु कारणब्रह्मोपलक्षणार्थमेव। यद्वस्तु यस्यैकदेशैककालगतत्वेन कदाचिद्व्यावर्तकं तत् तस्य व्यावर्तकत्वेनोपलक्षणमित्युच्यते। ‘काकवद्देवदत्तगृहम्’ इत्यस्मिन्नुदाहरणे काको देवदत्तगृहस्य उपलक्षकं भवति। यतो गृहैकदेशे काकः कदाचिदेवोपविष्टो भवति, न सर्वदा। गृहान्तराद्देवदत्तगृहस्य व्यावर्तकश्च भवति। एवं जगतः कारणे ब्रह्मणि तदेकदेशे कदाचिदेव मूर्तिर्भवति चतुर्भुजत्वादिरूपा। तस्माद्व्यावर्तकत्वादुपलक्षका भवति। उपलक्षणस्य चेदं प्रयोजनम्। यत् विशेषवस्तुस्वरूपज्ञानोत्पत्तिरेव। यथा काकेन देवदत्तगृहज्ञानमेव जायते। नास्ति च प्रयोजनान्तरम्। चतुर्भुजत्वादितत्तदाकारविशेषैर्निराकारकारणब्रह्मज्ञानमेवोपासनार्थमूर्तिकथने तथा प्रयोजनं नान्यत्।