ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५२७ – शास्त्रतात्पर्यानभिज्ञतया मूर्त्याकारेष्वाग्रहवतां शिवादीनां दुःखानुभवः

मन्दप्रज्ञास्तु शास्त्राभिप्रायानभिज्ञतया स्वस्वाभिलषितशिवविष्ण्वाद्याकारविशेषेष्वेवाग्रहं कुर्वन्ति। *१ स्यालसारमेन्यायेन परस्परं कलहायन्ते च। भार्यासहोदरस्य स्याल इति नाम। शुनः (कुक्कुरस्य) सारमेय इति नाम। दृष्टान्तस्य न्याय इति नाम। कस्यचित् स्यालकस्य नाम उत्पालक इति। तत्स्यालशत्रोश्च नाम धावक इति तथा तद्गृहस्थस्य कस्यचित् शुनश्च धावक इत्येव नाम। समीपगृहस्थस्य शुनश्च नाम उत्पालक इति। तत्र तत्पुरुषस्य भार्यायाः स्वभर्तृगृहप्रवेशोऽयं प्रथमः। तदा द्वावपि श्वानावन्योन्यं सदा कलहं कुर्वाते। तत्र स्त्रियो भर्तृश्वश्वादय उत्पालकं निन्दित्वा स्वकीयं धावकं बह्वमन्यन्त। तदा तस्याः स्त्रियो मत्सहोदरमेते निन्दित्वा तद्विरोधिनं स्तुवन्तीत्ययं भ्रमोऽभूत्। तेन दूषितान्तःकरणा स्वभर्तरि स्वक्लेशं विज्ञापयामास। यथात्र वक्रभिप्रायानभिज्ञा समानाभिधानभ्रान्त्या स्त्री दुःखमन्वभूत्। तथैव वैष्णवादिग्रन्थेषु शिवादिनामभिः कार्यं ब्रह्मैव निन्द्यत इत्यभिप्रायानभिज्ञतया शैवादयो वृथा दुःखायन्ते। तथा वैष्णवा अपि शैवादिग्रन्थेषु विष्ण्वादिनामभिः कार्यं ब्रह्मैव निन्द्यत इत्यजानन्तो दुःखमनुभवन्ति।

*१. स्यालः = पत्नीभ्राता। सारमेयः = श्वा।