ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५२८ – शुभसन्ततेः प्रश्नः। उत्तरमीमांसायाः प्रामाण्यं, तदितरशास्त्राणामप्रामाण्यं च

शुभसन्ततिः स्वपुत्रोक्तं वचः श्रुत्वा, पुराणानां परस्परविरोधशङ्कायाः समाधानं च लब्ध्वा सुख्यभूत्। परन्तु षट्च्छास्त्राणां परस्परविरोधाशङ्कानिवृत्त्यभावाद्विशेषतः सुखी नाभूत्। अतो यच्छास्त्रविज्ञानेन परमार्थसत्यमवबुद्ध्येत, किं तच्छास्त्रं सत्यभूतमिति पुनः पुत्रं पप्रच्छ।