आवर्तः ५२९ – तर्कदृष्ट्युत्तरम्
तर्कदृष्टिः स्वपितृवचनं श्रुत्वा परमप्रमाणभूतं वचोऽब्रवीत्। उत्तरमीमांसोपदेश एव न वेदविरुद्धः। इतराणि तु पञ्चापि शास्त्राणि वेदविरुद्धत्वादशुद्धान्यप्रामाणिकानीति। तत्रापि वेदाविरुद्धानंशान् वेदानुसारित्वात् केचन मन्दाधिकारिणोऽनुतिष्ठन्ति। यद्यपि –
(१) साङ्ख्यशास्त्रकर्ता कपिलः।
(२) पातञ्जलस्य कर्ता पतञ्जलिः शेषावतारभूतः।
(३) न्यायशास्त्रकर्ता गौतमः।
(४) वैशेषिकशास्त्रकर्ता कणादः।
(५) पूर्वमीमांसाकर्ता जैमिनिः।
(६) उत्तरमीमांसाकर्ता व्यासः।
एतेषां माहात्म्यं च सुप्रसिद्धं सर्वेषाम्। तस्मादेतेषां वचनरूपं शास्त्रं सर्वमपि सममेव प्रमाणं स्यात्। तथापि सर्ववाक्येभ्योऽपि वेदवाक्यमेव प्रबलं प्रमाणं भवति। वेदस्य हि कर्ता सर्वेश्वरः। नैव तत्र भ्रमसंशयप्रमादविप्रलिप्सादयः सन्ति दोषाः। तदितरशास्त्रकर्तारस्तु जीवा एव। एतेषां भ्रमादयो दोषाः संभवेयुरेव।
यद्यपि शास्त्रकाराः सर्वे सर्वज्ञाः कथ्यन्ते। तथापि तेषां सर्वज्ञताया योगमाहात्म्यजन्यत्वाद्युञ्जानयोगिनस्ते भवन्ति। ईश्वरसर्वज्ञतायाः स्वभावसिद्धत्वादीश्वरो युक्तयोगी। ध्यानेन पदार्थज्ञानं यस्य जायते स युञ्जानो योगीत्युच्यते। यस्य पुनः सर्वदा एकरसतया सर्वपदार्थगोचरापरोक्षप्रतीतिर्जायते स युक्तो योगीत्युच्यते। तत्र युक्तायोगिकृतवेद एव प्रबलं प्रमाणम्। युञ्जानयोगिकृतं शास्त्रान्तरजातं सर्वमपि दुर्बलमेव।