ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५३०

अतो वेदानुसारि शास्त्रमेव प्रमाणम्। वेदविरुद्धमप्रमाणमेव। पञ्चापि शास्त्राणि अप्रमाणानि। वेदविरुद्धत्वात्। वेदविरोधित्वं तेषां विस्पष्टं निरूपितम्। उत्तरमीमांसा तु न कस्मिंश्चिदप्यंशे वेदविरुद्धा भवति। अत एव सा सर्वथा प्रमाणम्। शास्त्रान्तराण्यपि क्वचिदंशे वेदानुसारितां तत्र दृष्ट्वा मन्दधियः केचन विश्वसन्ति। तथापि वेदविरुद्धांशबाहुल्यात् सुतरां तानि परित्याज्यान्येव। क्वचिदंशे विरोधेऽपि क्वचिदंशे वेदानुसारित्वात् तान्यपि अङ्गीकार्याण्येवेति चेत्। तर्हि जैनमपि शास्त्रम् ‘अहिंसा परमो धर्मः’ इत्यहिंसांशे “न हिंस्यात् सर्वा भूतानि” इति वेदानुसारित्वादङ्गीकार्यं स्यात्। जैनशास्त्रं तु वेदबाह्यत्वेन हेयमेव।

यद्यपि सगुत ईश्वरावतारो बुद्ध इति चोच्यते। तद्वचनमपि वेदवत् प्रमाणीकर्तव्यमेव। तथापि स विप्रलिप्सानिमित्तमेवावततार। तस्मात् तद्वचनं सर्वथाप्यप्रमाणमेव। वञ्चनेच्छा विप्रलिप्सा। अत एव सर्वांशेऽपि वेदानुसारित्वादुत्तरमीमांसैव सर्वथा मुमुक्षुभिरुपादेया। उत्तरमीमांसा हि सूत्रात्मना श्रीवेदव्यासेनाकारि। तद्व्याख्यानानि च नानारूपाणि अनेककृतानि सन्ति। तथापि भगवत्पूज्यचरणश्रीशङ्कराचार्यकृतं भाष्यात्मकं व्याख्यानमेव वेदानुसार वर्तते। नेतराणि। पञ्चमतरङ्गे चैतदुक्तम्। तस्माच्छास्त्रान्तराणि सर्वाण्यपि पञ्च अप्रमाणान्येव।