-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
आवर्तः ५३१ – शास्त्रान्तराण्यप्रमाणानीत्यतो हेयानि, तत्र दृष्टान्तो, केतुश्च कथ्यते
अस्मिंस्तरङ्गे पूर्वं शास्त्राणां सर्वेषां मोक्षोपयोगिता तर्कदृष्टिसारग्राहिविवेकवशादभिहिता। यथा कश्चिच्छत्रुरसिना रुग्णं कञ्चिदच्छिनत्। तदा बही रुधिरागमनाद्दैवगत्या तद्रोगनिवृत्तिरभूत्। तत्र सारग्राही पुरुषः स्वशत्रुं हन्तारमसिपाणिनमपि उपकारकत्वेनैव मन्यते। तथा शास्त्रान्तरेणापि येन केनापि प्रकारेणान्तःकरणशुद्धिनैश्चल्योत्पत्तिवशात् संसाराद्विनिवृत्तस्य पुरुषस्य वेदानुसारिनिश्चयकरणान्मोक्षो जायेतेति नैवात्राग्रहः सर्वथापि कर्तुं शक्यते। अन्धगोलाङ्गूलन्यायेनानर्थप्राप्तिप्रसङ्गात्। तस्माद्विहाय शास्त्रान्तराण्यपि सकलानि शुद्धाद्वैतव्याख्यानरीत्या शारीरकोत्तरमीमांसैव ग्राह्या।