ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५३२ – अन्धगोलाङ्गूलन्यायः

कस्यचिद्धनिकस्य पुत्रं सर्वाभरणभूषितं चोरा वनमानीयाभरणान्यपि सर्वाण्यपहृत्य तन्नेत्रे बद्धा विजने विसृज्य जग्मुः। तदा तत्र रुदन्तं तं बालं निर्दयः कश्चिदतिवञ्चकोऽतिबलिष्ठमुन्मत्तं कञ्चिद्बलीवर्दं लाङ्गूले तद्धस्तेन ग्राहयित्वा मा त्यजास्य लाङ्गूलम्। शीघ्रं स्वग्राममनेन प्राप्नोषीत्यवोचत्। स च दुःखी बालस्तद्वचनं विश्वस्य तदुक्तमनुष्ठाय ततोऽपि महत् दुःखमनुभूय विनष्टोऽभूत्। तद्वद्विषयरूपाश्चोरा विवेकाख्यं नेत्रं पिधाय संसारवने मुमुक्षुं सन्त्यजन्ति। तदा *१ भेदवादी मतान्तरस्थो निर्दयवञ्चकोऽन्यशास्त्रसिद्धान्ते तस्य विश्वासं जनयित्वा ‘अस्मदुपदेश एव तव परमसुखप्राप्तिहेतुः मा त्यजैनम्’ इति उपदिशति। मन्दतमो ह्यधिकारी तद्वाक्यमेव विश्वस्य तदुक्तमाचरन् परमपुरुषार्थसुखरहितो जननमरणरूपं महद्दुःखमनुभवेत्। अतः शास्त्रान्तराणि मुमुक्षुणा म्लेच्छशास्त्रवद्दूरतस्त्याज्यान्येव।

*१. भेदवादिनो ह्याचार्याः स्वयमपि स्वशास्त्रोक्तपरमेश्वरप्राप्तिरूपमोक्षाद्यनुभवशून्या वर्तन्ते। क्रमशोऽप्युक्तोपासनादिरूपमोक्षसाधनरहिताः शिष्यवित्तापहारार्थं शिष्यत्वेनान्यान् वशीकर्तुं स्वसमयसंप्रदायचिह्नितसाङ्केतिकमन्त्रोपदेशं कुर्वन्ति। अस्मदु शास्त्रीयात्सन्मार्गाद्भ्रष्टानां सतां यावज्जीवं जन्म निष्फलं किल स्यादिति परितापो न तेषां जायते। एवं दयाविरहिता व्यञ्चका एव भेदवादिनो द्वैतिनः।