ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५३३ – राज्ञो मरणानन्तरं ब्रह्मलोकप्राप्तिः

इत्थं शुभसन्ततिर्नाम राजा तर्कदृष्टेः स्वपुत्रस्य वचनं श्रुत्वा सर्वसंशयान् समस्तमनःशोकांश्च सन्त्यज्य पूर्णानन्दमवाप। कारणब्रह्मोपसानायां बहुशश्चित्तलयं चकार। तर्कदृष्टिमेव स्वगुरुत्वेन भावयित्वा विशिष्टं राज्यं तस्मा अदात्। पुत्रोऽपि तर्कदृष्टिरुत्तमोपदेशकर्तृत्वाद्गुरुपदवीं भेजे। तदेतत् सर्वं ब्रह्मविद्याया माहात्म्यमेव।