ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५३४ – शुभसन्ततिमरणम्

कतिपयदिवसानन्तरं राजा प्राणान् सञ्जहौ। सनकादिमुनिगणप्राप्यं ब्रह्मलोकं च जगाम। न हि राज्ञो मरणे देशकालादिनियमोक्तिरस्ति। अस्यायमभिप्रायः उपासकमरणविषये न देशकालादिव्यपेक्षास्ति। अह वा रात्रौ वा दक्षिणायने वा उत्तराणये वा शुद्धे वाप्यशुद्धे देशे मृतोऽप्युपासनाबलात् स सर्वथापि देवयानेन पथा ब्रह्मलोकमेव गच्छति। अदृष्टिप्रसङ्गे पूर्वं देशकालाद्यपेक्षा स्यादिति यदुक्तं तदयोगसहितोपासकविषयम् केवलेश्वरैकशरणतां गतस्योपसकस्य नैवास्ति देशकालाद्यपेक्षा। प्रतिपादितश्चायमर्थः सूत्रभाष्यकारादिभिः।