ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५३५ – तर्कदृष्टेर्देहपातः। परमात्मैक्यम्

तदा तर्कदृष्टिर्दृढतरद्वैततुच्छतानिश्चयः । सन् राज्यकार्यमखिलमपि सावधानमना एवाकरोत्। न क्वचिदपि सक्तोऽभूत्। सदा ब्रह्मण्येव तस्य निष्ठाभूत्। प्रारब्धान्ते च निश्चलं धाम कैवल्यमवाप। आत्मा (कूटस्थसाक्षी) परमात्मनाभिन्नोऽभूत्। देहश्च भस्मीभूतः। यद्यापि कूटस्थपरमात्मनोः सदाभेद एवास्ते। तथापि उपाधिना भिन्न इवाभात्। उपाधिलयाद्भेदस्तिरोदधे।

परमात्मनाभेद इत्यस्यायमभिप्रायः

विदेहमुक्तौ परमेश्वरेणाभेदः सिद्ध्यति। न तु शुद्धचैतन्येन। अयमर्थः शारीरकभाष्य चतुर्थाध्याये प्रत्यपादि। तत्रायं प्रसङ्गः

(१) विदेहमुक्तौ सत्यसङ्कल्पत्वादिप्राप्तिरिति जैमिनिमतम्।

(२) औडुलोमिमते सत्यसङ्कल्पत्वाद्यभावः कथ्यते।

(३) सिद्धान्ते तु सत्यसङ्कल्पत्वादीनां भावाभावावुभावप्युक्तौ।

तस्यायमभिप्रायः – विदेहमुक्तावीश्वराभेदो जायते। ऐश्वरसत्यसङ्कल्पत्वादयो मुक्तपुरुषे जीवान्तरैर्व्यवह्रियन्ते। परमार्थदृष्ट्या तु सोऽपीश्वरः शुद्धचैतन्यमेव। न तत्रास्ति गुणलेशोऽपि। निर्गुणत्वादेव सत्यसङ्कल्पत्वाद्यभावस्तत्र। संसारदशायामपि जीवः परमार्थतो निर्गुणः शुद्धश्च। तथापि संसारदशायामविद्यया तस्मिन् कर्तृत्वभोक्तृत्वाद्यनर्थः प्रतीयते। ईश्वरस्य तु न कदाचिदपि स्वस्मिन् परत्र वा संसारप्रतीतिरस्ति। अत एवेश्वरः सर्वदासङ्गो निर्गुणः शुद्धश्च। तस्माद्योऽभेद ईश्वरेणोच्यते स शुद्धब्रह्माभेद एव। ईश्वराभेदः शुद्धब्रह्माभेदो न स्यादिति यदि मन्येत तर्हीश्वरस्य शुद्धब्रह्मणा त्वैकात्म्यं नैव सिद्ध्येत् कदाचिदपि। यतो जीववदीश्वरस्य औपदेशिकं ज्ञानं विदेहमोक्षश्च न कदापि संभवेत्। सर्वदा तत्स्वरूपं न शुद्धं स्यात्। तस्माज्जीवापेक्षया न्यून ईश्वरः। सदा बद्धश्च स्यात्। तस्माद्वक्ष्यमाणरीत्यैव मन्तव्यम् –

(१) नास्त्यावरणमीश्वरस्य। अत एव नोपदेशजन्यज्ञानापेक्षा।

(२) आवरणाभावान्न भ्रान्तिरप्यस्ति। तस्मान्नित्यसर्वज्ञो नित्यमुक्तश्च।

(३) मायातत्कार्यजातं च नात्मनि प्रतीयते। अत एव सदासङ्गः शुद्धश्च।

एवं रीत्या ईश्वराभेद एव शुद्धचैतन्याभेद इत्युच्यते। इत्थं दृष्टान्तेनापि ईश्वरेणैवाभेदः सिद्ध्यति। यथा मठे घटनाशे घटाभावदशायां मठाकाशे घटाकाशो विलीयते। न तु महाकाशे। तथा विदुषः शरीरमपि ईश्वरकृतब्रह्माण्ड एव विनश्यति। अखिलमपि ब्रह्माण्डमीश्वरशरीरभूतमायायामन्तर्भवति। विदुषस्त्वात्मा विदेहमोक्षे ब्रह्माण्डान्न बहिर्गच्छति। इत्थमीश्वराभेदः सिद्ध्यति। परन्तु मठाकाशेन यथा घटाकाशस्याभेदः सिद्ध्यति। स च मठाकाशो महाकाशात्मनैव वर्तते। तथात्रापि विदुष ईश्वराभेदः। स च *१ ईश्वरः शुद्धं ब्रह्मैव। तस्माच्छुद्धब्रह्मप्राप्तिरेव भवति।

*१. अत्रायं रहस्यार्थः – ज्ञानदृष्ट्या विदेहमुक्तेः प्रागपि ब्रह्माण्डादिकं जगन्न किञ्चिदपि विद्यते। किन्तु ब्रह्मैव केवलं वर्तते। तस्माद्विद्वदृष्ट्या शुद्धेन ब्रह्मणैवाभेदो विदुषः। स एव तस्य शुद्धब्रह्मप्राप्तिः। अज्ञदृष्ट्या तु प्रागिव ब्रह्माण्डादयः प्रतीयन्ते। तस्मात्तद्दृष्ट्या ज्ञानिन ईश्वरेण (ईश्वरदेहभूतब्रह्माण्डेन) अभेदो जायते। सोऽपीश्वरः परमार्थतः शुद्धं ब्रह्मैव। अनेन ज्ञानिनः शुद्धब्रह्मप्राप्तिरेव भवति। विदेहमुक्तौ ज्ञानिजीवस्य यो ब्रह्माभेदः तस्मिन् आभासादिनानाप्रकारा वेदान्तपक्षाः षष्ठे तरङ्गे सङ्ग्रहेण निरूपिताः।