-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
आवर्तः ५३६ – भाषान्तरेऽस्य ग्रन्थस्य रचनायां हेतुः
इत्थमनेकवेदान्तसिद्धान्तरत्नगर्भितोऽयं विवेकतः प्रकटीकृतः। कृत्स्नमधीतं व्याकरणम्। साङ्ख्यन्यायादिशास्त्राण्यपि श्रमेण समग्रमवलोकितानि। अशेषा अद्वैतवेदान्तग्रन्थाश्च परिशीलिताः। नानवलोकितोऽस्ति ग्रन्थ एकोऽपि। अत्यन्तकठिनो दुरूहो मतान्तरसिद्धान्तोऽप्यतिश्रमेणावगाहितः। चतुरोऽपि वेदानपश्यं समग्रम्। अथापि मयायं विचारसागराख्यो ग्रन्थो भाषायामेवाकारि। न विलज्जे भाषारचनायाम्। परोपकारचिन्तैवात्र हेतुः। व्याकरणज्ञानं विना संस्कृतग्रन्था मन्दबुद्धिभिर्न शक्यन्ते पठितुमपि। भाषाप्रबन्धं त्वनायासेन पठित्वा पामरा अपि परमानन्दमनुभवेयुरिति।