ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५३७ – मङ्गलाचरणं ग्रन्थसमाप्तिश्च

हस्तिनापुरतः पश्चाद्योजनाष्टादशान्विते।
ग्रामे तु किहडौल्याख्ये ग्रन्थोऽयं रचितोऽभवत्॥

विदेहमुक्तिसमये येनाभेदं प्रपेदिरे।
ब्रह्मनिष्ठास्तथा वेदाः कारणं यत्स्तुवन्ति हि॥

व्यावृत्तनामरूपात्म जगत्यनुगतं तु यत्।
वेदान्तवेद्यं तल्लक्ष्यमस्तिभातिप्रियात्मकम्॥

एकं निरुपमं तत्त्वं शुद्धाद्वैतं चिदात्मकम्।
विषयावगमं ज्ञानं स्वयं विषयवर्जितम्॥

अखण्डं सच्चिदानन्दं मनोवागाद्यगोचरम्।
सर्वेषां प्रत्यगात्मानं परं ब्रह्म भवामि तत्॥

अहमेव परं ब्रह्म मयि सर्वं प्रकल्पितम्।
इति यत्कृपया बुद्धं सद्गुरुं तं नमाम्यहम्॥