ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ५३८ – अस्य ग्रन्थस्य संस्कृतभाषया रचनायां हेतुः

दिव्यां भाषां परित्यज्य ह्यन्यभाषाकृतानि वै।
शास्त्राणि ये प्रशृण्वन्ति ते वै निरयगामिनः॥ १॥ *१

बहुप्रमाणैरित्यादिवचनैर्निन्दितत्वत।
चित्तस्य शुद्धये चैव संस्कारार्थमियं कृतिः॥२॥

औषधादौ फलाधिक्यमनुमानबलात्स्फुटम्।
अनेन सर्वशास्त्रार्थसारः सुविदितो भवेत्॥३॥

*१. भारते शेषथर्मे।

॥इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे जीवन्मुक्तिविदेहमुक्तिवर्णनं नाम सप्तमस्तरङ्गः समाप्तः॥

॥ ग्रन्थञ्च समाप्तः ॥