ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४५६-४६० पूर्वोक्ताक्षेपसमाधिः। पदद्वयलक्षणा स्फलेति प्रदर्शनम्


आवर्तः ४५९ – पदद्वये लक्षणा। ओतप्रोतभावश्च

पदद्वयेऽपि लक्षणाभ्युपगमे तु नास्ति दोषः। उभयपदवाच्यार्थनिष्ठानेकत्वविरोधिनः सर्वधर्मान् विहाय स्वयंप्रकाशचैतन्यमात्रांशे निखिलधर्मशून्ये उभयोरपि पदयोर्लक्षणा ग्राह्या। उपाधितत्प्रयुक्तधर्मपुरस्कारेण चैतन्यस्य भेदे सत्यपि न स्वरूपतश्चैतन्यस्य भेदोऽस्ति। तस्मादुपाधितत्प्रयुक्तधर्मपरित्यागेन पदद्वयलक्ष्यार्थभूतचैतन्यैक्यं संभवति। घटाकाशगतघटदृष्टिपरित्यागमात्रेण न तस्य मठाकाशैक्यं संभवति। मठाकाशगतमठदृष्टेरपि परित्यागे त्वैक्यं संभवति। तद्वत् पदद्वयवाच्यार्थगतोपाधितत्प्रयुक्तधर्मपरित्यागे त्वैक्यं महावाक्येषु संभवति। ‘तत् त्वम्’, ‘त्वम् तत्’ इत्येवंप्रकारेण सर्वमहावाक्येषु *१ ओतप्रोतभावो विज्ञेयः।

*१. अनवरतगतागताभावेनाक्षुण्णो मार्गों यथा केवलोपदेशेन कस्यचित् सम्यगवगतो न भवति तथानिवृत्तप्रतिबन्धस्य जिज्ञासोरोतप्रोतभावकरणं विना न गुरूपदेशमात्रेणै। वैक्यविषयकदृढतरापरोक्षसाक्षात्कारो भवेत्। तादृशस्य शिष्यस्य तत्पदार्थविषयकपरोक्षत्वभ्रान्तिः, त्वंपदार्थविषयकपरिच्छिन्नत्वभ्रान्तिश्चानुवर्तेत। तन्निवृत्तये तेनोपदेशग्रहणानन्तरमोतप्रोतभावोऽभ्यसनीयः। अयमोतप्रोतभावोऽन्वयव्यतिरेक इत्युच्यते।

ओतप्रोतभावकरणेन च महावाक्यार्थे *१ परोक्षत्वपरिच्छिन्नत्वभ्रान्तिनिवर्तते । ‘तत् त्वम्’ इत्युक्त्या तत्पदार्थस्य त्वंपदार्थेनाभेद उक्तो भवति। त्वंपदार्थभूतसाक्षी नित्यमपरोक्षः। तेन परोक्षत्वभ्रमो निवर्तते। ‘त्वं तत्’ इत्युक्त्या त्वंपदार्थस्य तत्पदार्थेनाभेद उक्तो भवति। तत्पदार्थस्यार्थो व्यापकत्वम्। तेन परिच्छिन्नत्वभ्रमो निवर्तते। तथैव ‘अहं ब्रह्म’, ‘प्रज्ञानं ब्रह्म’, ‘आत्मा ब्रह्म’ इत्यादिभिः परिच्छिन्नत्वं निवर्तते। किञ्च ‘ब्रह्माहम्’, ‘ब्रह्म प्रज्ञानम्’, ‘ब्रह्म आत्मा’ इत्यादिभिः परोक्षत्वं निवर्तते। यत्र यत्र वेदवाक्यानि स्मृतिवाक्यानि वा जीवब्रह्मैकत्वं बोधयन्ति तत्र सर्वत्र भागत्यागलक्षणा ज्ञेया।

*१. अत्रेयं शङ्का भवति – महावाक्योपदेशानन्तरमपि कस्यचिज्जिज्ञासोः ब्रह्मविषयकपरोक्षत्वभ्रान्तिरात्मविषयक परिच्छिन्नत्वभ्रान्तिश्चानुवर्तत इत्युच्यते। सा च भ्रान्तिः कारणाभावे न स्यात्। तत्र ब्रह्मविषयकमायामात्मविषकाविद्यां च विना नान्यत् कारणं भवेत्। सा माया ब्रह्माश्रिता। अविद्या चात्माश्रिताभवत्। ते च मायाविद्ये जिज्ञासोः तत्त्वंपदार्थपरिशोधनकाले विनष्टेऽभूताम्। यथा घटादिस्वरूपविचारे कृते घटादिनिष्ठाविद्या नश्यति, तथा ब्रह्मात्मस्वरूपविचारे कृते तन्निष्ठमायाविद्ये नश्यतः। तादृशाधिकारिज्ञानिदृष्ट्या मायाविद्ये बाधिते अभूताम्। ब्रह्मात्मव्यतिरेकेण नास्त्यन्यश्चेतनः। यमाश्रित्य ते मायाविद्ये स्याताम्। विना चेतनं न जडं वस्त्वन्तरमाश्रित्य ते मायाविद्ये स्याताम्। यदि जिज्ञासोरुपदेशग्रहणानन्तरमपि ब्रह्मात्मविषयकपरोक्षत्वपरिच्छिन्नत्वभ्रान्ती स्यातां तत्कारणतया मायाविद्ययोः स्थितिरपि कल्पनीया। जिज्ञासोर्ब्रह्मात्मस्वरूपविचारेण बाधिते मायाविद्ये कमाश्रित्य स्थित्वोपदेशग्रहणानन्तरं तस्य परोक्षत्वपरिच्छिन्नत्वभ्रान्ती जनयेतामिति।

अत्रेदमुत्तरम् – पदार्थशोधनानन्तरं विचार्य ब्रह्मात्मनोरैक्ये सम्यग्विज्ञाते मायाविद्ये यद्यपि न संभवतस्तथापि मनननिदिध्यासनाद्यभावात् महावाक्यरूपब्रह्मात्मैक्ये सम्यगविदिते सति मायाविद्ये न बाधिते भवतः। ते च परोक्षत्वपरिच्छिन्नत्वभ्रान्ती जनयतः। तद्भ्रान्तिनिवृत्तये ओतप्रोतभावः कर्तव्यः। ओतप्रोतभावे कृते दृढतरैक्यसाक्षात्कारः सिद्ध्यति। निःशेषतया मायाविद्ये निवर्तेते। परोक्षत्वपरिच्छिन्नत्वभ्रान्ती च निवर्तेत इति।