ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४५६-४६० पूर्वोक्ताक्षेपसमाधिः। पदद्वयलक्षणा स्फलेति प्रदर्शनम्


आवर्तः ४६० – स्वप्नग्रन्थस्य समाप्तिः

इत्थं गुरूपदेशं श्रुत्वा शिष्यः कृतकृत्योऽभवत् –

इत्थं श्रुत्वा कृतार्थोऽभूद्वाक्यं शिष्यो गुरोर्मुखात्।
इत्थमन्योऽपि यः कश्चिद्वेद चेच्चिद्विचारणात्॥

निःशेषदुःखनाशात्स सद्य एव विमुच्यते।
सर्वमेतच्चोपदिष्टं स्वप्नवत् स्वविकल्पितैः॥

गुरुवेदान्तशास्त्राद्यैर्मिथ्याभूतैर्मनःकृतैः।
श्रुतेऽस्मिन् ग्रन्थरत्ने तु ह्यज्ञानं प्रविनश्यति॥

उपदेशोऽगृधदेवस्य स्वप्ने गुरुकृतोऽप्ययम्।
मिथ्यावनस्वरूपं तु न नष्टं दुःखकारणम्॥