- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४५६-४६० पूर्वोक्ताक्षेपसमाधिः। पदद्वयलक्षणा स्फलेति प्रदर्शनम्
आवर्तः ४५८ – जीववाचकपदे एव लक्षणेति पक्षोऽप्यसङ्गतः
ननु निखिलेष्वपि महावाक्येषु जीववाचकपदे एव लक्षणा, नेश्वरवाचकपदे। न च पुरुषार्थहानिः। जीववाचकपदे लक्षणाभ्युपगमे सति त्वंपदार्थलक्ष्यभूतचैतन्यभागः सर्वशक्तिमत्सर्वज्ञस्वतन्त्रजन्मादिबन्धरहितेश्वरस्वरूपं भवतीति महावाक्यार्थः स्यात्। अस्मिन्नर्थे बुद्धेः स्थैर्यकरणात् जिज्ञासोरत्युत्तमेश्वरभावापत्तिः स्यात्। तस्माज्जीववाचकपदे लक्षणेति नियम्यत इति चेत् —
तन्न। त्वंपदलक्ष्यार्थभूतः साक्ष्येवेश्वर इत्युक्तिर्न सङ्गच्छते। अतोऽभिज्ञाः पदद्वयेऽपि लक्षणां वदन्ति। अयमभिप्रायः – जीववाचकपदे एव लक्षणामभ्युपगम्येश्वरवाचकपदे तामनङ्गीकुर्वाणो वादी प्रष्टव्यः – (१) त्वंपदस्य किं व्यापके चैतन्ये लक्षणा (२) अथवा यत्र जीवस्योपाधिर्वर्तते तत्रत्यसाक्षिचैतन्ये लक्षणेति। व्यापकचैतन्ये त्वंपदस्य लक्षणा वक्तुं न शक्यते। वाच्यार्थे यत् प्रविष्टं तत्रैव भागत्यागलक्षणा संभवति। व्यापकचैतन्यं तु त्वंपदवाच्यार्थे न प्रविष्टम्, किन्तु जीवोपाध्यन्तर्गतं साक्षिचैतन्यमेव प्रविष्टम्। त्वंपदवाच्यार्थैकदेशभूते साक्षिचैतन्ये एव त्वंपदस्य लक्षणा भवेत्, न व्यापकचैतन्ये। तस्मिन् साक्षिचैतन्ये सर्वान्तःकरणप्रेरकत्वसर्वप्रपञ्चव्यापकत्वादय ईश्वरधर्मा न संभवेयुः। अपि च साक्षी सदापरोक्षः। तस्मिन् परोक्षत्वादीश्वरधर्माः सुतरां न संभवेयुः। किञ्च दण्डरहितस्य दण्डित्वव्यपदेशः, संस्काररहितद्विजशिशोः संस्कारवत्त्वोक्तिश्च यथासङ्गता तथा त्वंपदलक्ष्यस्य मायारहितचैतन्यस्य मायाविशिष्टेश्वरत्वोक्तिश्च न युज्येतैव। तस्मात् साक्षिचैतन्यस्येश्वराभेदोक्तौ महावाक्यस्यासम्भावितार्थप्रतिपादकत्वमापद्येत।