- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४५६-४६० पूर्वोक्ताक्षेपसमाधिः। पदद्वयलक्षणा स्फलेति प्रदर्शनम्
आवर्तः ४५७ – ईश्वरवाचकपदे एव लक्षणेति पक्षोऽप्यसङ्गतः
अथ यद्युच्यते – ‘महावाक्येषु प्रथमपदे एव लक्षणेति वा द्वितीयपदे एव लक्षणेति वा नियमो नाङ्गीक्रियते। किन्तु सर्वत्र ईश्वरवाचकपदे एव लक्षणेत्येव नियमः। ईश्वरवाचकपदं प्रथमं वा भवतु द्वितीयं वा। न च वाक्यानां परस्परं विरोधः’ इति।
तन्न। ईश्वरवाचकपदे व लक्षणेत्यभ्युपगमे किञ्चिज्ज्ञत्वपराधीनत्वजननमरणादिदुःखनिदानत्वरूपसकलानर्थास्पदीभूतः संसारी जीव एव सर्वश्रुतिवाक्यगम्य इति तादृशजीव एव ज्ञेयो भवेत्। तथा च मोक्षहानिः स्यात्।
अयं भावः – ईश्वरवाचकपदे एव लक्षणेत्यभ्युपगमे महावाक्यानामेवमर्थः स्यात् – तत्पदलक्ष्यार्थभूतमद्वयमसङ्गं मायामलरहितं चैतन्यमेव अविद्याकामकर्मवशं गतं सत् किञ्चिज्ज्ञत्वाल्पशक्तिमत्त्वपरिच्छिन्नत्वपुण्यपापाधीनसुखदुःखजन्ममरणेहलोकपरलोकगमनागमनादिभाक्त्वरूपानेकानर्थास्पदम् इति। अस्यैव महावाक्यार्थत्वे जिज्ञासोरत्रैवार्थे बुद्धेः स्थैर्यं सम्पादनीयं भवेत्। यत्रैव बुद्धिः स्थिरीक्रियते तदेव प्राणवियोगानन्तरं पुरुषः प्राप्नोतीति नियमः। “यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति” (छा. ३.१४.१)।
यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः॥ भ.गी. ८.६॥
इत्यादिश्रुतिस्मृतिशतेभ्यः।
अतो वेदान्तविचारेण मुमुक्षुरनर्थमेव प्राप्नोति। नानन्दमिति सिद्ध्येत्। तस्मान्महावाक्येष्वीश्वरवाचकपदे एव लक्षणा न जीववाचकपदे इति नियमोऽसङ्गतः।