- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४६३ पूर्वोक्ताक्षेपसमाधिः। पदद्वयलक्षणा स्फलेति प्रदर्शनम्
आवर्तः ४५६ – तत्र महावाक्येषेकपद एव लक्षणेति वादी प्रष्टव्यः
महावाक्यगतपदद्वये कतरस्मिन् पदे लक्षणेति। तत्र सर्वेषु महावाक्येषु प्रथमपदे एव लक्षणा न द्वितीयपदे इत्यभ्युपगमो न सङ्गच्छते। तथैव सर्वत्र द्वितीयपदे एव लक्षणा न प्रथमपदे इत्यप्यसङ्गतमेव। तथा नियमे वाक्यानां परस्परविरोध एव स्यात्। तथा हि, “अहं ब्रह्मास्मि “, “प्रज्ञानं ब्रह्म”, “अयमात्मा ब्रह्म” इति वाक्यत्रये प्रथमपदं जीववाचकम्। “तत्त्वमसि” इति वाक्ये तु प्रथमपदमीश्वरवाचकम्। सर्ववाक्येषु प्रथमपदे लक्षणाङ्गीकारे चैतन्यं सर्वज्ञत्वादिधर्मविशिष्टेश्वरस्वरूपमिति प्रथमवाक्यत्रयस्यार्थः स्यात्। यतः प्रथमवाक्यत्रये प्रथमपदं जीववाचकम्। तस्य चैतन्यमात्रे लक्षणा। द्वितीयस्येश्वरवाचकपदस्य वाच्यार्थ एव गृह्यते। ततश्च चैतन्यं सर्वमीश्वरस्वरूपमिति प्रथमवाक्यत्रयस्यार्थः पर्यवसन्नः।
“तत्त्वमसि” इति वाक्ये तु चैतन्यं किञ्चिज्ज्ञत्वादिधर्मविशिष्टसंसार्यात्मकजीवस्वरूपमिति चतुर्थमहावाक्यार्थः स्यात्। यतः “तत्त्वमसि’ इति वाक्ये प्रथमपदमीश्वरवाचकम्। तस्य चैतन्यमात्रे लक्षणा। द्वितीयस्य जीववाचकपदस्य वाच्यार्थ एव गृह्यते। ततश्च चैतन्यं सर्वं जीवस्वरूपमिति चतुर्थवाक्यार्थः पर्यवसन्नः।
तथा सर्ववाक्येषु द्वितीयपदे एव लक्षणेत्यभ्युपगमे प्रथमवाक्यत्रये जीववाक्यत्रये जीववाचकप्रथमपदस्य वाच्यार्थो ग्राह्यः। ईश्वरवाचकद्वितीयपदस्य चैतन्यमात्रे लक्षणा ग्राह्या। ततश्च किञ्चिज्ज्ञत्वादिधर्मविशिष्टं चैतन्यम्’ इति प्रथमवाक्यत्रयस्यार्थः पर्यवसन्नः। “तत्त्वमसि’ इति वाक्ये तु प्रथमस्येश्वरवाचकपदस्य वाच्यार्थो गृह्यते। जीववाचकद्वितीयपदस्य चैतन्यमात्रे लक्षणा गृह्यते। ततश्च सर्वज्ञत्वादिधर्मविशिष्टं चैतन्यम्’ इति तत्त्वमसीति वाक्यस्यार्थः पर्यवसन्नः। एवमपि परस्परं विरोध एव। इत्थं महावाक्येषु प्रथमपदे एव द्वितीयपदे एव इति लक्षणाया नियमो नाभ्युपगन्तुं शक्यते। तस्मादाचार्या महावाक्येषु पदद्वयेऽपि लक्षणां कथयन्ति।