- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
आवर्तः ४५५ – महावाक्येषु पदद्वयेऽपि लक्षणाङ्गीकारो निष्फल इत्याक्षेपः
अत्र केचिदाहुः – महावाक्येषु विरोधपरिहाराय पदद्वयेऽपि लक्षणाङ्गीकारो व्यर्थः। एकपदे लक्षणाङ्गीकारेणैव विरोधनिवृत्तेरिति। तेषामयमाशयः – सर्वज्ञत्वादिधर्मविशिष्टस्य किञ्चिज्ज्ञत्वादिधर्मविशिष्टेन सहैक्यं यद्यपि न युज्यते। तथाप्येकपदलक्ष्यार्थभूतशुद्धस्य पदान्तरार्थभूतविशिष्टेनैक्यं युज्यत एव। तत्र दृष्टान्तः – ‘क्षत्रियमनुष्योऽयं ब्राह्मणः’ इत्यत्र क्षत्रियत्वधर्मविशिष्टस्य ब्राह्मणत्वधर्मविशिष्टेन सहैक्यं विरुद्धमेव। ‘मनुष्योऽयं ब्राह्मणः’ इत्यत्र तु क्षत्रियत्वधर्मरहितशुद्धमनुष्यस्य ब्राह्मणत्वधर्मविशिष्टेन सहैक्ये न विरोधः।
तथा किञ्चिज्ज्ञत्वादिधर्मविशिष्टचैतन्यस्य सर्वज्ञत्वादिधर्मविशिष्टचैतन्यस्य चैक्यं न युज्यते। विरोधात्। अपि तु जीवेश्वरवाचकपदयोश्चैतन्यमात्रलक्षकत्वे संभवत्यपि अन्यतरपदस्यैव चैतन्यमात्रे लक्षणायां सत्यां तस्य लक्ष्यस्य चैतन्यमात्रस्य पदान्तरवाच्यार्थभूतसर्वज्ञत्वादिधर्मविशिष्टेन वा किञ्चिज्ज्ञत्वादिधर्मविशिष्टेन वा एकत्वे विरोधो न भवेदेव। तस्मात्पदद्वये लक्षणाभ्युपगमे न काचिदपि युक्तिरस्तीति।