ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्


आवर्तः ४५४ – पूर्वोक्तार्थसङ्ग्रहः

‘गङ्गायां घोषः’ इत्यत्र जहल्लक्षणा। ‘शोणो धावति’ इत्यत्राजहल्लक्षणा। ‘सोऽयं देवदत्तः’ इत्यत्र भागत्यागलक्षणा। इयं जहदजहल्लक्षणेति चोच्यते। “तत्त्वमसि’ इत्यादिमहावाक्येषु जहल्लक्षणा वा अहजहल्लक्षणा वा न युज्यते। अतस्ते परित्यज्य भागत्यागलक्षणैव प्रदर्शिता। “यतो वाचो निवर्तन्ते” इत्यादिश्रुतयो ब्रह्म न कस्यापि पदस्य वाच्यं भवेदिति बोधयन्ति। अतः समस्तपदेषु ब्रह्मविषये लक्षणैवेत्थं ग्राह्या। मायाया आपेक्षिकं सत्त्वं चैतन्यनिष्ठं निरपेक्षम् (पारमार्थिकम्) सत्त्वं च मिलित्वा सत्यपदवाच्यमुच्यते। तत्र निरपेक्षसत्त्वमेव सत्यपदस्य लक्ष्यम्। स्वयंप्रकाशमानं ज्ञानं बुद्धिवृत्तिरूपज्ञानं च मिलित्वा ज्ञानपदवाच्यं भवति। तत्र स्वयंप्रकाशज्ञानं ज्ञानपदस्य लक्ष्यम्। आत्मनः स्वरूपानन्द इष्टविषयसंबन्धजन्यसुखाकारसात्त्विकान्तःकरणवृत्तिरूपं विषयसुखं च मिलित्वा आननन्दपदवाच्यं भवति। तत्र वृत्तिरूपं विषयसुखं परित्यज्य स्वात्मस्वरूपसुखमेवानन्दपदलक्ष्यम्।