- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
आवर्तः ४५३ – चतुर्षु महावाक्येषु भागत्यागलक्षणाप्रदर्शनम्
(१) तत्र ‘तत्त्वमसि’ इति महावाक्ये भागत्यागलक्षणा यथा – माया मायास्थाभासः, मायाधिष्ठानचैतन्यं चेत्येतत् त्रयं मिलित्वा सर्वशक्तित्वसर्वज्ञत्वादिधर्मविशिष्ट ईश्वर इति कथ्यते, अयमेव तत्पदवाच्यार्थः। व्यष्ट्यविद्या, तत्रस्थाभासः तदधिष्ठानचैतन्यं चेत्येतत् त्रयं मिलित्वा अल्पशक्तित्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीव इत्युच्यते। अयमेव त्वंपदवाच्यार्थः। अनयोरेकत्वं ‘तत्त्वमसि’ इति वाक्यं बोधयति। एतत्तु न घटते। तस्मात् आभाससहितमायाकृतसर्वशक्तित्वसर्वज्ञत्वादिधर्मांश्च तत्पदवाच्यांशान् विहाय चैतन्यभागमात्रग्रहणे तत्पदस्य भागत्यागलक्षणा सिद्ध्यति। तथा आभाससहिताविद्यांशमविद्याकृताल्पशक्तित्वकिञ्चिज्ज्ञत्वादिधर्मांश्च त्वंपदवाच्यांशान् विहाय चैतन्यभागमात्रग्रहणे त्वंपदस्य भागत्यागलक्षणा सिद्ध्यति। इत्थं भागत्यागलक्षणया जीवेश्वरस्वरूपस्थलक्ष्यार्थभूतचैतन्यांशैक्यं *१ ‘तत्त्वमसि’ *२ इति महावाक्यं बोधयति।
??? संबन्धत्रयेणा
*१. इदं च ‘तत्त्वमसि’ इति वाक्यम् (१) पदयोः सामानाधिकरण्यम्, (२) पदार्थयोर्विशेषणविशेष्यभावः, (३) प्रत्यगात्मपरमात्मनोर्लक्षणलक्ष्यभावश्चेति खण्डार्थं बोधयति।
(१) तत्र पदयोः सामानाधिकरण्यसंबन्धो यथा – ‘सोऽयं देवदत्तः’ इति वाक्ये तत्कालादिविशिष्टदेवदत्तवाचकस्य ‘सः’ इति पदस्य एतत्कालादिविशिष्टदेवदत्तवाचकस्य ‘अयम्’ इति पदस्य चैकदेवदत्तशरीरे तात्पर्यात् उभयोः पदयोः सामानाधिकरण्यसंबन्धः (भिन्नार्थयोः पदयोरेकार्थबोधकत्वरूपः) सिद्ध्यति। तथा ‘तत्त्वमसि’ इति वाक्ये परोक्षत्वादिधर्मविशिष्टचैतन्यवाचकस्य तत्पदस्य, अपरोक्षत्वादिधर्मविशिष्टचैतन्यवाचकस्य त्वंपदस्य चैकस्मिन्नेव चैतन्ये तात्पर्यात् उभयोः पदयोः (तत्त्वंपदयोः) सामानाधिकरण्यं सिद्ध्यति।
(२) विशेषणविशेष्यभावसंबन्धो यथा इतरेभ्यो व्यावर्तकं विशेषणम्। व्यावर्त्यं विशेष्यम्। ‘सोऽयं देवदत्तः’ इति वाक्ये ‘अयम्’ इति शब्दबोध्य एतद्देशकालादिविशिष्टदेवदत्तः ‘सः’ इति शब्दबोध्यात् तद्देशकालादिविशिष्टदेवदत्तात् न भिद्यते इति यदाभेदः प्रतीयते तदा ‘अयम्’ इति शब्दवाच्यार्थनिष्ठभेदम् ‘सः’ इति शब्दार्थो व्यावर्तयति। अतः ‘सः’ इति विशेषणम्। अयम्’ इति शब्दार्थस्य व्यावर्त्यत्वात् ‘अयम्’ इति विशेष्यम्। इत्थं स एवायम्’ ‘अयमेव सः’ इति वाक्यद्वयनिष्ठयोः ‘सः’ ‘अयम्’ इति पदयोरन्योन्यं विशेषणविशेष्यभावेन स्थितत्वात् विशेषणविशेष्यभावः सिद्ध्यति। एतदृष्टान्तेन ‘तत्त्वमसि’ इति त्वंपदवाच्यार्थभूतापरोक्षत्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टयदा प्रतीतिर्जायते तदा त्वंपदार्थनिष्ठभेदं तत्पदार्थो व्यावर्तयतीति तत्पदं विशेषणम्। त्वंपदार्थस्य व्यावर्त्य - त्वात् त्वंपदं विशेष्यम्। इत्थं ‘तत्त्वमसि’ ‘त्वं तदसि’ इति वाक्ययोस्तत्त्वंपदयोरन्योन्यं विशेषणविशेष्यभावसंबन्धः सिद्ध्यति। चैतन्यं तत्पदवाच्यार्थभूतपरोक्षत्वादिधर्मविशिष्टचैतन्यादभिन्नमिति
(३) लक्षणलक्ष्यभावसंबन्धो यथा - असाधारणधर्मप्रतिपादकं वाक्यं लक्षणम्। तादृशवाक्यप्रतिपाद्यं लक्ष्यम्। ‘स एवायं देवदत्तः’ इति वाक्ये ‘सः’ ‘अयम्’ इति । शब्दद्वयबोध्यविरुद्धधर्मभूततद्देशकालैतद्देशकालादिवैशिष्ट्यपरित्यागेन देवदत्तत्वविशिष्टदेवदत्तपिण्डमात्रेण सह स एवायं देवदत्तः’ इति वाक्यस्य लक्ष्यलक्षणभावः संबन्धः सिद्ध्यति। एवमेव ‘तत्त्वमसि’ इति वाक्येऽपि ‘तत्’ ‘त्वम्’ इति पदद्वयबोध्यविरुद्धधर्मभूतपरोक्षत्वापरोक्षत्ववैशिष्ट्यपरित्यागेन चैतन्यमात्रेण सह ‘तत्त्वमसि’ इति वाक्यस्य लक्ष्यलक्षणभावः संबन्धः सिद्ध्यति। तस्मात् विरुद्धांशपरित्यागेनाविरुद्धचैतन्यांशमात्रबोधकं ‘तत्त्वमसि’ इति वाक्यं लक्षणम्। अखण्डचैतन्यं लक्ष्यमिति सिद्धम्।
*२. ‘तत्त्वमसि’ इति वाक्यमुपदेशवाक्यम्। ‘प्रज्ञानं ब्रह्म’ इति वाक्यं स्वरूपबोधकवाक्यम्। ‘अयमात्मा ब्रह्म’ इत्यपरोक्षत्वबोधकं वाक्यम्। ‘अहं ब्रह्मास्मि’ इत्यनुभवबोधकवाक्यम्।
येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च।
स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदाहृतम्॥ १॥
‘प्रज्ञानम्’ इति शब्दार्थसङ्ग्राहक श्लोकः।
चतुर्मुखादिदेवेषु मनुष्याश्वगवादिषु।
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि॥ २॥
‘ब्रह्म’ इति शब्दार्थसङ्ग्राहकश्लोकः। ऋग्वेदमहावाक्यार्थसङ्ग्राहकश्लोकाविमौ।
परिपूर्णः परात्मास्मिन् देहे विद्याधिकारिणि।
बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते॥ ३॥
‘अहम्’ इति शब्दार्थसङ्ग्राहक श्लोकः।
स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः।
अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम्॥ ४॥
‘ब्रह्मास्मि’ इति शब्दार्थसङ्ग्राहक श्लोकः। इति यजुर्वेदमहावाक्यार्थसङ्ग्राहकश्लोकौ।
एकमेवाद्वितीयं सन्नामरूपविवर्जितम्।
सृष्टेः पुराधुनाप्यस्य तादृत्त्वं तदितीर्यते॥ ५॥
‘तत्’ इति शब्दार्थसङ्ग्राहक श्लोकः।
श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम्।
एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम्॥ ६॥
‘त्वमसि’ इति शब्दार्थसङ्ग्राहक श्लोकः। इति सामवेदमहावाक्यार्थसङ्ग्राहकशलोकौ।
स्वप्रकाशापरोक्षत्वमयमित्युक्तितो गतम्।
अहङ्कारादिदेहान्तान् प्रत्यगात्मेति गीयते॥ ७॥
‘अयमात्मा’ इति शब्दार्थसङ्ग्राहक श्लोकः।
दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते।
ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम्॥ ८॥
‘ब्रह्म’ इति शब्दार्थसङ्ग्राकश्लोकः। इमौ अथर्ववेदमहावाक्यार्थसङ्ग्राहक श्लोकौ। इति ग्रन्थकृदयं स्वकीयैरष्टभिः श्लोकैः चतुर्णामपि वेदानां महावाक्यार्थान् सञ्जग्राह।
(२) एवमेव *१ “अयमात्मा ब्रह्म” इति महावाक्येऽपि भागत्यागलक्षणा बोध्या। तथा हि अत्र ‘आत्मा’ इति पदस्य जीवो वाच्योऽर्थः। ‘ब्रह्म’ इति पदस्येश्वरो वाच्यः। अत्र ब्रह्मपदस्य शुद्धं चैतन्यं न वाच्यम्, किन्त्वीश्वर एवेत्येतच्चतुर्थे तरङ्गे प्रतिपादितम्। पूर्ववदत्रापि पदद्वयस्य लक्षणा ग्राह्या। लक्ष्यार्थभूतचैतन्यं नैव परोक्षम्, किन्तु नित्यापरोक्षमेवेतीममर्थं बोधयितुमेव ‘अयम्’ इति पदं प्रयुक्तम्। अयम् = ‘ब्रह्मादिस्तम्बान्तसर्वप्राणिनां ‘अहमहम्’ इति *२ नित्यापरोक्षतया भासमान आत्मैव’ ब्रह्मेति वाक्यार्थः।
*१. “अयमात्मा ब्रह्म” इदमथर्ववेदीयमाण्डूक्योपनिषद्गतं महावाक्यम्। प्रपञ्चस्तु भाष्यादौ पञ्चदश्यां महावाक्यविवेकप्रकरणे च द्रष्टव्यः।
*२. अपरोक्षं द्विविधम् – आद्यं स्वयंप्रकाशस्वरूपत्वात् बुद्धिवृत्तिप्रकाशकसाक्षिस्वरूप आत्मैवापरोक्ष इत्युच्यते। द्वितीयं ‘अहं स्वप्रकाश आत्मास्मि’ इति बुद्धिवृत्तिरूपं यज्ज्ञानं तदप्यपरोक्षमित्युच्यते। तत्राद्यमपरोक्षम् (आत्मस्वरूपत्वेन सदा विद्यमानत्वात्) नित्यम्। द्वितीयं त्वनित्यम्, बुद्धिवृत्तेः कादाचित्कत्वात्।
(३) *३ “अहं ब्रह्मास्मि” इति महावाक्येऽपि अहंपदस्य जीवो वाच्यः। ब्रह्मपदस्येश्वरो वाच्यः। अनयोः पदयोः शुद्धचैतन्यांशे लक्षणा। अहमेव परं ब्रह्मेति वाक्यार्थः।
*३. “अहं ब्रह्मास्मि” इदं शुक्लयजुर्वेदीयबृहदारण्यकोपनिषद्गतं महावाक्यम्।
(४) *४ “प्रज्ञानम् (आनन्दम्) ब्रह्म” इति महावाक्ये प्रज्ञानपदस्य जीवो वाच्यः। ब्रह्मपदस्येश्वरो वाच्यः। पूर्ववदुभयोः शुद्धचैतन्यांशे लक्षणा। लक्ष्यार्थभूतप्रत्यगभिन्नब्रह्मात्मा नानन्दगुणयुक्तः। किन्त्वानन्दस्वरूप एवेत्यर्थावगमाय आनन्दपदाध्याहारः कृतः। प्रत्यगभिन्नं ब्रह्म आनन्दस्वरूपमिति वाक्यार्थः।
*४. “प्रज्ञानं ब्रह्म” इदमृग्वेदीयैतरेयोपनिषद्गतं महावाक्यम्।
यथा महावाक्यस्थपदानां भागत्यागलक्षणा तथा वाक्यान्तरेष्वपि सत्यम्, ज्ञानम्, अनन्तमित्यादिपदानि भागत्यागलक्षणयैव शुद्धं ब्रह्म बोधयन्ति, न तु शक्त्या। न हि कस्यचिदपि पदस्य शुद्धं ब्रह्म वाच्यं भवतीति सिद्धान्तः। “यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह”, “नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा “, “अथात आदेशो नेति नेति” इत्यादिश्रुतिभ्यः। तस्मात् सर्वाण्यपि पदानि विशिष्टस्य वाचकानि शुद्धस्य लक्षकानि च भवन्ति।
मायाया आपेक्षिकं सत्यत्वं चैतन्यस्य निरपेक्षं सत्यत्वं चेत्युभयं मिलित्वा सत्यशब्दस्य वाच्यं भवति। निरपेक्ष (मुख्य) सत्यत्वं लक्ष्यं भवति। बुद्धिवृत्तिरूपं ज्ञानं स्वयंप्रकाशरूपं ज्ञानं चेत्युभयं मिलित्वा ज्ञानशब्दस्य वाच्यं भवति। स्वयंप्रकाशांशस्तु लक्ष्य उच्यते। विषयसंबन्धजन्यसुखाकारसात्त्विकान्तःकरणवृत्तिः परमप्रेमास्पदस्वरूपं सुखं चेत्युभयं मिलित्वा आनन्दपदस्य वाच्यम्। वृत्त्यंशं विहाय स्वरूपानन्दांशो लक्ष्यार्थः। इत्थं सर्वपदानां शुद्धे ब्रह्मणि लक्षणेति सङ्क्षेपशारीरके प्रतिपादितम्।