ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्


आवर्तः ४५२ – अवच्छेदवादः

कतिपयग्रन्थेषु शुद्धसत्त्वगुणोपेतमायाविशिष्टचैतन्यमीश्वरः, मलिनसत्त्वगुणोपेतान्तःकरणोपादानकारणीभूताविद्यांशविशिष्टचैतन्यं जीव इति च कथ्यते। अयमेवावच्छेदवाद इत्युच्यते। वेदान्तेषु प्रक्रियाभेदाः *१ सर्वे अप्यद्वैतात्मावगमार्था एव। अत एव यया यया प्रक्रियया जिज्ञासोर्बोधो भवेत्सा सा प्रक्रिया तस्य तस्य समीचीनाभिप्रेता। तथापि वाक्यवृत्त्युपदेशसाहस्र्यादौ भाष्यकारैराभासवाद एवाभ्युपगतः। तस्मादाभासवाद एव मुख्यः।

*१. सर्वशब्देन कार्यकारणोपाधिवादः, अवच्छिन्नानवच्छिन्नवादः, दृष्टिसृष्टिवादः इत्यादयो गृह्यन्ते। वेदान्तस्यानेकपक्षानुवादोऽप्यप्पय्यदीक्षितकृतशास्त्रसिद्धान्तलेशाख्यग्रन्थे कृतः।