ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्


आवर्तः ४५१ – आभासप्रतिबिम्बवादयोर्भेदः

आभासपक्षे आभासो मिथ्या। प्रतिबिम्बपक्षे प्रतिबिम्बो न मिथ्या। अपि तु सत्यः। प्रतिबिम्बवादसिद्धान्तस्त्वेवम् – दर्पणे प्रतीयमानो मुखप्रतिबिम्बो न मुखस्य छायारूपः। छायायाः स्वभावस्त्वयम् – यस्यां दिशि छायावतो मुखं पृष्ठभागश्च वर्तते तस्यामेव दिशि छायाया मुखं पृष्ठभागश्च वर्तेत। दर्पणे प्रतिबिम्बितं मुखं तत्पृष्ठभागश्च बिम्बाभिमुखतया वर्तते। तस्माद्दर्पणे छायारूपः प्रतिबिम्बो नास्ति। किन्तु दर्पणविषयीकरणाय चक्षुर्द्वारा बहिर्निर्गतान्तःकरणवृत्तिर्दर्पणं विषयीकृत्य तत्क्षणमेव दर्पणात् प्रतिनिवृत्य ग्रीवास्थं मुखं विषयीकरोति। अत्यन्तवेगेन भ्रमणवशादलातदण्डश्चक्रवद्भाति। नैव तत् चक्रम्। तथा दर्पणं मुखं च विषयीकर्तुं प्रवृत्तान्तःकरणवृत्तेर्वेगवशात् मुखं दर्पणस्थमिव भाति। वस्तुतो मुखं ग्रीवायामेव वर्तते, न दर्पणे। नापि मुखछायास्ति दर्पणे। अन्तःकरणवृत्तेर्वेगवशात् भ्रान्त्या प्रतीयमानं यत् मुखस्य दर्पणस्थत्वं स एव प्रतिबिम्ब इत्युच्यते।

इत्थं दर्पणरूपोपाधिसंबन्धवशात् ग्रीवास्थमुखमेव बिम्बात्मना प्रतिबिम्बात्मना च भाति। सम्यग्विचार्यमाणे तु बिम्बप्रतिबिम्बभाव एव नास्ति। एवमज्ञानरूपोपाधिसंबन्धवशात् असङ्गचैतन्ये बिम्बस्थानीयेश्वरभावः प्रतिबिम्बस्थानीयजीवभावश्च प्रतीयते। सम्यग्विचार्यमाणे तु ईश्वरत्वं जीवत्वं च नैव संभवति। अज्ञानवशाच्चैतन्ये जायमानजीवत्वप्रतीतिश्च अज्ञानस्थप्रतिबिम्ब इत्युच्यते। तस्मात् बिम्बत्वं प्रतिबिम्बत्वं च मिथ्यैव। चैतन्यस्वरूपेण तु बिम्बप्रतिबिम्बादिकं सत्यमेव। दृष्टान्ते बिम्बप्रतिबिम्बयोः स्वरूपं मुखं दान्तिके चैतन्यं च सत्यम्। इत्थं स्वरूपतः सत्यत्वात् प्रतिबिम्बं सत्यमित्युच्यते। आभासस्वरूपं तु छायेत्यभ्युपगतम्। अतो मिथ्या। अयमेवाभास प्रतिबिम्बवादयोः *१ भेदः।

*१. अत्रायं विशेषः – नीरपूर्णानेकघटेष्वनेकानि सूर्यप्रतिबिम्बानि भान्ति। तेष्वेकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वेषां प्रतिबिम्बानां मिलित्वा एकत्वेन ग्रहणे समष्टिरिति गीयते। एतेषु व्यष्टिप्रतिबिम्बेषु यत् प्रतिबिम्बं यदा जलाभावेनाभावं गच्छति तत् तदा सूर्येणाभेदं गच्छति। नेतराणि प्रतिबिम्बानि। अनेन क्रमेण यदा सर्वेषां प्रतिबिम्बानामभावो भविष्यति तदा समष्टिप्रतिबिम्बस्य सूर्येणाभेदः कथ्यते।

यथायं दृष्टान्तस्तथैव पूर्वोक्ताभासपक्षे नानाबुद्ध्यात्मकेषु अथवा अविद्यांशरूपेषु जलेषु ब्रह्मणोऽनेकानि प्रतिबिम्बानि (आभासाः) जायन्ते। तत्रैकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वाणि प्रतिबिम्बानि (आभासाः) मिलित्वा समष्टिरिति कीर्त्यते। तत्रानेकव्यष्टिप्रतिबिम्बानि जीवाः। एकं समष्टिप्रतिबिम्बमीश्वरः। तेषु जीवेषु मध्ये यस्य जीवस्योपाध्यभाववशादभावो जायते तस्य ब्रह्मणा सहौपाचारिकोऽभेदः कथ्यते। अनेन क्रमेण यदा सर्वजीवाभावो भविष्यति तदा समष्टिप्रतिबिम्बरूपेश्वरस्य विदेहमुक्तिः।

अस्मिन् पक्षे जगतो वा जीवस्य वा बह्मणा सहाभेदं ब्रुवतां श्रुतिवाक्यानां भागत्यागलक्षणा नाभ्युपगम्यते। किन्तु ‘गङ्गायां घोष:’ इति वाक्ये इव वाच्यार्थं सर्वं परित्यज्य तत्संबन्धिब्रह्ममात्रग्रहणात् जहल्लक्षणैव गृह्यते। इदञ्च अधिष्ठानकूटस्थं चैतन्यं विहाय केवलबुद्धिविशिष्टो वा अविद्याविशिष्टो वा आभासो जीव इत्यभ्युपगच्छतो वेदान्त्येकदेशिन आभासवादिनो मतम्।

अस्मिन् पक्षे पुरुषार्थ (मोक्ष) सिद्धये प्रयतमानस्याभासरूपस्य मोक्षदशायामभाव एव भवति। ततश्च ‘वृद्धिमिच्छतो मूलहानिः’ इतिवत् मोक्षार्थं प्रयतमानस्य जीवस्य स्वरूपनाशो भवतीत्यनर्थं ज्ञात्वा न कस्यचिदपि मुमुक्षोरस्मिन् सिद्धान्ते प्रवृत्तिः स्यादिति नायं पक्षः साधुः।

पञ्चदश्यादिग्रन्थेष्वित्थमुच्यते – अधिष्ठान कूटस्थेन सह साभासा बुद्धिर्वा अविद्या वा जीवः, अधिष्ठानब्रह्मणा सह साभासा माया ईश्वर इति च अत्र पक्षे वाच्यैकदेशं विहायैकदेशग्रहणात् महावाक्यस्थलेषु सिद्धान्तसम्मता या भागत्यागलक्षणा सा गृह्यते। अस्मिन् पक्षे मुख्याकाशदृष्टान्त एवाभ्युपेयः। आकाशदृष्टान्तविस्तरः पञ्चदश्यां चित्रदीपे अस्मिन् ग्रन्थे चतुर्थतरङ्गे चोक्तः। अस्मिन् पक्षे आकाशस्य वा मुखादिप्रतिबिम्बस्य वा अधिष्ठानभूतोपादानं घटाकाशोऽथवा दर्पणादिः। परिणाम्युपादानं तु जलमविद्यादि। निमित्तकारणं महाकाशः, मुखादिबिम्बम्, उपाधिसन्निधिश्च।

बाधिते चास्मिन् प्रतिबिम्बे स्वबिम्बरूपमुखादिभिः सहाभिन्नं भवति। तथापि जलं दर्पणादिकं बिम्बसन्निधिरूपं निमित्तं च यावदास्ते तावत् बाधितमपि प्रतिबिम्बमनुवर्तेत। इयमेव बाधितानुवृत्तिरित्युच्यते। एवमेव चिदाभासरूपजीवस्याधिष्ठानरूपोपादानं कूटस्थचैतन्यम्। परिणाम्युपादानं नाना बुद्धिः, अज्ञानांशो वा। निमित्तं प्रारब्धं कर्म। तेषु मध्ये यश्चिदाभासो बुद्धिरूपोपाधिना, अज्ञानांशरूपोपाधिना वा सहितं स्वस्वरूपं बाधित्वा ‘कूटस्थः’ ‘अहम्’ इत्यादिजीववाचकपदलक्ष्यार्थरूपाधिष्ठानभूतनिजस्वरूपाभिमानबलात् अहंपदलक्ष्यार्थरूपकूटस्थस्य बिम्बरूपब्रह्मणा सह प्रागेव सिद्धमेकत्वं जानाति स एव मुच्यते। इतरो बध्यते ‘अहं ब्रह्मास्मि’ इति ज्ञानोत्पत्तिसमकालमेवाविद्यारूपोपादाननाशात् तत्कार्यजगता सह चिदाभासस्य बाधो जायते। तथापि यावत् प्रारब्धरूपं निमित्तमास्ते तावत् बाधितस्यापि (मिथ्यात्वेन निश्चितस्यापि) देहादिप्रपञ्चस्य चिदाभासस्याप्यनुवृत्तिर्भवति। यदा तु प्रारब्धक्षयः तदा तत्प्रारब्धक्षयाधीनः चिदाभासादिप्रतीत्यभावो भवति। सैव विदेहमुक्तिः। प्रागुक्तपक्षादयमुत्तमः पक्षः।

बिम्बप्रतिबिम्बवादे प्रतिबिम्बस्याधिष्ठानरूपोपादानं बिम्बः। परिणाम्युपादानं मुखादिबिम्बाज्ञानम्। तन्निमित्तकारणं दर्पणादिकं बिम्बसन्निधिश्च। बिम्बप्रतिबिम्बयोरभेदज्ञानेन प्रतिबिम्बत्वनिवृत्तिर्भवति। परन्तु यावत् बिम्बस्य दर्पणादेश्च सन्निधिरूपनिमित्तकारणमस्ति तावत् मिथ्यात्वेनावगतत्वात् प्रतिबिम्बत्वधर्महीनतया प्रतिबिम्बस्वरूपं प्रतीयेत। यदा दर्पणादिनिवृत्तिः तदा प्रतिबिम्बस्य प्रतीतिर्निवर्तते।

एवमेवैकेनैवाज्ञानेन शुद्धब्रह्मरूपबिम्बे जीवरूपप्रतिबिम्बत्वं प्रतीयते। तदुपादानमज्ञानमधिष्ठानं च शुद्धं ब्रह्म। निमित्तकारणमदृष्टम्। यदा तस्य प्रतिबिम्बस्य स्वबिम्बभूतब्रह्मणा सहैकत्वं प्रतीयते तदा तस्य प्रतिबिम्बत्वम् (जीवत्वम्) निवर्तते। परन्तु यावत्प्रारब्धरूपोपाधिः (निमित्तम्) वर्तते तावत् बाधितजगता सहास्य जीवस्य जीवत्वधर्मविनिर्मुक्तं स्वरूपं प्रतीयते। यदा प्रारब्धरूपनिमित्तस्यान्तो भविष्यति तदा तादृशजीस्वरूपस्य प्रतीत्यभावात् केवलं शुद्धं ब्रह्मैव शिष्यते। सैव तस्य जीवस्य विदेहमुक्तिः।

अस्मिन् पक्षे स्वप्न इव एक एव मुख्यो जीवः। प्रतीयमाननानाजीवास्तु जीवाभासा एव। अत्र पक्षे सत्तात्रैविध्यमङ्गीक्रियते। अयं च व्यावहारिकपक्ष इत्युच्यते। । तथाप्ययमेव सर्वव्यावहारिकपक्षाणामुत्तमः। इत्थमाभासप्रतिबिम्बवादयोर्भेदः।