- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
आवर्तः ४५० – प्रतिबिम्बवादः
विवरणकारमते जीवेश्वरयोरुपाधिरेकमेवाज्ञानम्। जीवेश्वरयोरुभयोरेकाज्ञानोपाधिकत्वादुभयोरल्पज्ञत्वादिप्रसङ्गदोषो न संभवति। यस्मिन्नुपाधौ प्रतिबिम्बो जायते तस्योपाधेरयं स्वभावः प्रतिबिम्बे स्वदोषोपधायकत्वं बिम्बे तदनाधायकत्वमिति। उपाधेः प्रतिबिम्बपक्षपातित्वमिति नियमो लोके दृष्टः। तथा हि, दर्पणरूपोपाधौ मुखप्रतिबिम्बो जायते। तत्र ग्रीवास्थं मुखं बिम्ब इत्युच्यते। तत्र दर्पणरूपोपाधिस्थश्यामत्वपीतत्वलघुत्वादिदोषाः प्रतिबिम्बे विभान्ति। न तु बिम्बे ग्रीवास्थमुखे। एवं दर्पणस्थानीयाज्ञानरूपोपाधौ प्रतिबिम्बभूतजीवे उपाधिरूपाज्ञानहेतुककिञ्चिज्ज्ञत्वादिदोषा वर्तन्ते। *१ बिम्बरूपेश्वरे न ते दोषाः सन्ति। अत एवेश्वरे सर्वज्ञत्वादयः सन्ति। जीवे च किञ्चिज्ज्ञत्वादयः।
*१. प्रतिबिम्बवादे शुद्धं ब्रह्मेश्वरः। तस्मिन् सर्वज्ञत्वादिधर्मा अपि स्वतो न संभवन्ति। तथापि जीवाश्रितकिञ्चिज्ज्ञत्वादिकमपेक्ष्य शुद्धे ब्रह्मणि बिम्बत्वेश्वरत्वसर्वज्ञत्वादिधर्मा आरोपिताः। वस्तुतस्तु जीवेश्वरावुभावपि शुद्धब्रह्मस्वरूपावेव। तत्र न कोऽपि धर्मः संभवति।