ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४४३-४४९ महावाक्येषु लक्षणा


आवर्तः ४४९ – आभासवादः

पञ्चदशीग्रन्थे विद्यारण्यस्वामिनोऽन्तःकरणाभासो जीव इत्यवोचन्। नन्वन्तःकरणाभासो जीव इत्यभ्युपगमे सुषुप्तावन्तः करणाभावाज्जीवाभावः प्रसज्येत। तथा सति प्राज्ञरूपो जीवः सुषुप्त्यभिमानी वर्तत इति प्रसिद्धिर्विरुध्येतेति चेन्न। अन्तःकरणाभासो जीव इति वदतां विद्यारण्यस्वमिनामयमाशयः अन्तःकरणात्मना परिणममानाविद्यांशप्रतिफलित आभासो जीवः। स चाविद्यांशः सुषुप्तावप्यस्ति। तस्मान्न प्राज्ञाभावप्रसङ्ग इति।

अत्रायं विशेषः – जीवेश्वरौ न *१ केवलाभासरूपौ। किन्तु मायाधिष्ठानचैतन्यम्, माया, तत्र चैतन्याभासः इत्येतत् त्र्यं मिलित्वा ईश्वरः। अविद्यांशाधिष्ठानचैतन्यम्, अविद्यांशः, तत्र चैतन्याभास इत्येतत् त्र्यं मिलित्वा जीवः। ईश्वरोपाधौ शुद्धसत्त्वगुणस्य सत्त्वात् ईश्वरे सर्वज्ञत्वसर्वशक्तिमत्त्वादिधर्मा वर्तन्ते। जीवोपाधौ मलिनसत्त्वगुणस्य सत्त्वात् जीवेऽल्पशक्तिमत्त्वकिञिज्ज्ञत्वादिधर्मा वर्तन्ते। अयमेवाभासवाद इत्युच्यते।

*१ जीवेश्वरौ न केवलचिदाभासौ। स्वतादात्म्यसंबन्धवशात् अधिष्ठानानतिरिक्ततया यद्भाति तदारोपितमित्युच्यते। आरोपितं चाधिष्ठानातिरिक्ततया न भाति। यथा रज्ज्वारोपितः सर्पः रज्वतिरिक्ततया न भाति। किन्तु रज्वनतिरिक्ततया रज्जुस्वरूपमाच्छाद्य सर्पो भाति। तथा मायाविद्यास्थाभासावपि आरोपितत्वेन हेतुना तयोरधिष्ठानभूतकूटस्थब्रह्मचैतन्यातिरिक्ततया न भातुमर्हतः। किन्तु तावभावप्याभासौ स्वाधिष्ठानभूतकूटस्थब्रह्मचैतन्याभ्यां तादात्म्यसंबन्धरूपैकत्वं प्राप्य अधिष्ठानभूतकूटस्थब्रह्मणोः स्वरूपमाच्छाद्यैव विभातः। तस्मादधिष्ठान चैतन्यं मायाविद्यारूपोपाधिसहितचिदाभासश्च जीवो वा ईश्वरो वा भवति।