ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४४३-४४९ महावाक्येषु लक्षणा


आवर्तः ४४८ – महावाक्ये भागत्यागलक्षणाङ्गीकारक्रमः

तत्पदवाच्य ईश्वरः, त्वंपदवाच्यो जीवः। एतयोः परस्परविरुद्धांशं विहाय शुद्धासङ्गचैतन्यांशो लक्षणया बोध्यः। इयमेव भागत्यागलक्षणा।

अत्रायं सिद्धान्तः – जीवेश्वरयोः स्वरूपं बहुधा अद्वैतग्रन्थेषु कथ्यते। विवरणग्रन्थे अज्ञानप्रतिबिम्बो जीवः तद्बिम्ब ईश्वर इत्युच्यते। विद्यारण्यस्वामिमते शुद्धसत्त्वगुणप्रधानमायायां प्रतिफलित आभास ईश्वरः, मलिनसत्त्वगुणप्रधानान्तःकरणोपादानभूताविद्यायां प्रतिफलित आभासो जीव इति वर्ण्यते।